________________
१११६
आचा० प्रदी०
ABRECAREAAAAAX
'से बेमि' तदहं ब्रवीमि यदर्थ प्राणिनस्तदारम्भप्रवृत्तौ व्यापाद्यन्ते, अप्येकेऽर्चायै ध्नन्ति, अर्च्यतेऽसावाहारालङ्कार|| विधानैरित्यर्चा-देहस्तदर्थ व्यापादयन्ति, तथाहि-लक्षणवत्पुरुषमक्षतमव्यङ्गं व्याणद्य तच्छरीरेण विद्या-मन्त्रसाधनानि
कुर्वन्ति, उपयाचितं वा यच्छन्ति दुर्गादीनां, तथाऽजिनार्थ चित्रक-व्याघ्रादीन् व्यापादयन्ति, एवं मांस-शोणित-हृदयपित्त-वशा-पिच्छ-पुच्छ-चाल -शृङ्ग-विषाण-दन्त-दंष्ट्रा-नख-स्नाय्वस्थ्यस्थिमिञ्जादिष्वपि वाच्यम् । ____ तत्र मांसाथ शूकरादयः, त्रिशूळालेखार्थ' शोणितं गृह्णन्ति, हृदयानि साधका गृहीत्वाऽश्नन्ति', पित्तार्थ मयूरादयः, बसार्थ व्याघ-मकर-वराहादयः, पिच्छार्थ मयूरगृध्रादयः, पुच्छार्थ रोझादयः, वालार्थ चमर्यादयः, शृङ्गार्थ रुरुखड्गादयः, तत् किल शङ्ग याज्ञिकाः पवित्रमिति गृहन्ति, विषाणार्थ शृगालादयः', दन्तार्थ हस्त्यादयः, दंष्ट्रार्थ वराहादयः, नखार्थ व्याघ्रादयः, स्नास्त्रथं गो-महिष्यादयः, अस्ध्यर्थ शङ्ख-शुक्त्यादयः, अस्थिमिजार्थ महिप-वराहादयः, एवमेके यथोपदिष्टप्रयोजन- | कलापापेक्षया घ्नन्ति, अपरे तु कुकलास-गृहकोकिलादीन् विना प्रयोजनेन व्यापादयन्ति ।
अन्ये पुनः 'हिंसिंसु मे ति' हिंसितवानेपोऽस्मतस्वजनान्सिहः सोऽरिर्वाऽतो ध्नन्ति, मम वा पीडां कृतवन्त इत्यतो हन्ति, तथाऽन्ये वर्तमानकाल एव हिनस्ति अस्मान् सिंहोऽन्यो वेति घ्नन्ति, तथाऽस्मानयं हि सिष्यतीत्यनागतमेव सादिकं व्यापादयन्ति ॥ ५४॥
१०लेण्यार्थ-पा० । ५०त्वा मध्नन्ति-वृ० । ३०) हस्त्यादयः -वृ० । ४०र्थ टगालादयः-वृ० ।
SOSSESSISESEOSESSISSES
॥१०॥