________________
आचा०
१११६
प्रदी.
TIESIOGIOSICIOCESSISSUSCISSIOG
सर्वेऽपि प्राणिनः शारीरान्मानसाच्च दुःखादुद्विजन्ते इत्येवमहं ब्रवीमि ।
एतच्च ब्रवीमि-एवंविधेनाऽसातादिविशेषणविशिष्टेन दुःखेनाभिभूतास्त्रस्यन्ति-उद्विजन्ति प्राणा इति प्राणिनः, कुतः पुनरुद्विजन्तीति दर्शयति-'पदिस' त्ति प्रगता दिक् प्रदिग्विदिक् इत्यर्थः, ततः प्रदिशः सकाशादुद्विजन्ति, तथा प्राच्यादिषु च दिक्षु व्यस्थितास्त्रस्यन्ति, एताश्च प्रज्ञापकविधिविभक्ता दिशोऽनुदिशो वा गृह्यन्ते, तासु जीवव्यवस्थानश्रवणात् , ततश्चायमर्थः प्रतिपादितो भवति काक्वा-न काचिद्दिगनुदिग् वा यस्यां न सन्ति त्रसाः, त्रस्यन्ति वा न यस्यां' कोशिकारकीटवत, कोशिकारकीटो हि सर्वदिग्भ्योऽनुदिग्भ्यश्च बिभ्यदात्मसंरक्षणार्थ वेष्टनं करोति शरीरस्येति, भावदिगपि न काचित्तादृश्यस्ति यस्यां वर्तमानो जन्तुन त्रस्येत् , शारीर-मानसाभ्यां दुःखाभ्यां सर्वत्र नरकादिषु जंघन्यते प्राणिनोऽतस्त्रासपरिगतमनसः सर्वदाऽवगन्तव्याः ॥ ५१ ॥
एवं सर्वत्र दिक्षु विदिक्षु च त्रसाः सन्तीति गृहणीमः, कुतः पुनस्वस्यन्ति यस्माचदारम्भवद्भिस्ते व्यापाद्यन्ते, किं पुनः कारणं ते तानारभन्त इत्याह
तत्थ तत्थ पुढो पास आतुरा परिताति ।
संति पाणा पुढो सिता (सू. ५२) १ वा यस्यां बृ.।
SESEOSESSISSIPLASS
मा०
॥९७॥