________________
आचा० प्रदी.
१।१।६
यद्येवं ततः किमित्याह--
_णिज्झाइत्ता पडिलेहित्ता पत्तेयं परिणिव्वाणं सवेसि पाणाणं सव्वेसि भूताणं सव्वेसिं जीवाणं सव्वेसिं सत्ताणं असायं अपरिणिव्वाणं महब्भयं दुक्खं ति बेमि ।
__ तसंति पाणा पदिसो दिसासु य (सू. ५१) ___ 'णिज्झाइ' त्ति इमं त्रसकायं निश्चयेन ध्यावा-चिन्तयित्वा ब्रवीमि, 'पडिले हित्ता' प्रत्युपेक्ष्य-दृष्ट्वा यथावदुपलभ्य, किं तत् ? 'पत्तेयं' ति एकं [एकं ] त्रसकायं प्रति, परिनिर्वाणं- सुखं, प्रत्येकमुखभाजः सर्वेऽपि प्राणिनो, नान्यदीयं सुखमन्य उपभुङ्क्ते, एष च सर्वः प्राणिधर्म इति दर्शयति--'सव्वेसिं पाणाणं' ति सर्वेषां प्राणिनां-द्वि-त्रि-चतुरिन्द्रियाणां, सर्वेषां भूतानां प्रत्येक-साधारण-सूक्ष्म-बादर-पर्याप्तकाऽपर्याप्तकतरूणां, सर्वेषां जीवानां-गर्भव्युत्क्रान्तिकसम्मूर्च्छनजौपपातिकपञ्चेन्द्रियाणां सर्वेषां सत्वानां-पृथिव्यायेकेन्द्रियाणामिति, उक्तश्च -
"प्राणा द्वि-त्रि-चतुःप्रोक्ताः, भूतास्तु तरवः स्मृताः।
जीवाः पञ्चेन्द्रियाः प्रोक्ताः, शेषाः सत्त्वाः प्रकीर्तिताः ॥१॥" [ तदेवं विचिन्त्य प्रत्युपेक्ष्य च सर्वेषां जीवाना प्रत्येक परिनिर्वाणं-सुखं, तथा प्रत्येकमसातं, अपरिनिर्वाणमिति समन्तात् सुखं परिनिर्वाणं, न परिनिर्वाणमपरिनिर्वाणं-समन्तात शरीर-मनःपीडाकर, तथा महाभयं-नातःपरमन्यदस्तीति महाभयं,
॥९६॥