SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ १।११६ प्राचा प्रदी रसाजाताः रसजाः-तक्राऽऽरनालदधितीमनादिषु कृम्याऽऽकृतयोऽतिसूक्ष्मा भवन्ति । संस्वेदाजाताः सं स्वेदजाः-मत्कुणयकाशतपदिकादयः। सम्मुर्छनाज्जाताः सम्मूर्छनजाः-शलभपिपीलिकामक्षिकादयः। उद्भेदनमुद्भिद्, भुवमुद्भिद्य जाताः पृषोदरादित्वाद्दलोपे उद्भिजाः-पतङ्गखञ्जरीटादयः । उपपाताजाता उपपातजा अथवा उपपाते भवा औपपातिकाः देवा नारकाश्च । एवमेतस्मिन्नष्टविधे जन्मनि सर्वे त्रसजन्तवः संसारिणो निपतन्ति, नैतव्यतिरेकेणाऽन्ये सन्ति, सन्स्यनेन त्रिकालाऽस्तित्वं प्रतिपाद्यते त्रसानां, न कदाचिदेतैविरहितः संसारः सम्भवतीति दर्शयति, 'एस संसारे त्ति पवुञ्चति' एषोऽण्डमादिप्राणिकलापः संसारः प्रोच्यते ॥ ४९ ॥ कस्य पुनरत्राऽष्टविधभूतग्रामे उत्पत्तिर्भवतीत्याह मंदस्स अवियाणओ (सू. ५०) मन्दो द्वेधा-द्रव्य-भावभेदान , द्रव्यमन्दोऽतिस्थूलोऽतिकृशो वा, भावमन्दोऽनुचितबुद्धिाल: कुशास्त्रवासितमतिर्वा, अयपपि सबुद्धेरभावाद् बाल एष, इह भावपन्देनाऽधिकारः, मन्दस्य-बालस्याऽविशिष्टबुद्धेरतएव अजानतः-हिताऽहितप्राप्तिपरिहारशून्यमनस एष संसारो भवतीति ॥५०॥ ॥९५॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy