________________
आचा०
प्रदी०
साम्प्रतमुपभोग- शस्त्र-वेदनाद्वारत्रयप्रतिपादनायाऽऽह
साईपरिभोगो सत्यं सत्थाइयं अणेगविहं । सारीर-माणसा वेयणा य दुविहा बहुविहा य ॥ १ ॥
[ आ० नि० गाथा १६० ]
मांस- चर्म - केश-नख- पिच्छ-दन्त-स्नाय्वस्थिविषाणादिभिस्त्रसजीवसम्बन्धिभिरुपभोगो भवति, शस्त्र शस्त्रादिकं खङ्गतोमर-क्षुरिकादि तदादिर्यस्य जलाऽनलादेस्तच्छत्रादिकमनेकविधं स्वकायपरकायो भयद्रव्य भाव भेदभिन्नमनेकप्रकारं, कायस्य वेदना द्विविधा - शरीरसमुत्था मनःसमुत्था च तत्राद्या शल्य-शलाकादिभेदजनिता, इतरा प्रियविप्रयोगाऽप्रियसम्प्रयोगादिकृता, बहुविधा च ज्जरातीसार-कास- श्वास- भगन्दर - शिरोरोग-शूलादिसमुत्था तीव्रेति ।
पुनरप्युपभोगप्रपञ्च माह —
मंसस्स के अट्ठाई केइ चम्मस्स केइ रोमाणं । पिच्छाणं पुच्छाणं दंताणऽट्ठा वहिजति ॥ १ ॥ केई वहति अट्ठा केइ अणट्ठा पसंगदोसेणं । कम्मपसंगपसत्ता बंधंति वहति मारंति ॥ २ ॥
[ आ० नि० गाथा १६१।१६२ ] पिच्छार्थ - मयूर - गृध्रादयः, पुच्छार्थ चमर्या
मांसार्थं मृग-शुकरादयो वध्यन्ते, चम्र्म्मार्थं चित्रकादयः, रोमार्थं मूषिकादयः, दयः, दन्तार्थ हस्ति - वराहादयो वध्यन्ते ।
१|१|६
॥९३॥