________________
आचा०
प्रदी०
दर्शनं - सामान्योपलब्धिरूपं चक्षुरचक्षुरवधिकेवलाख्यं मत्यादीनि ज्ञानानि, सामायिक - छेदोपस्थापना - परिहारविशुद्धि --सूक्ष्मसंपराय - यथाख्यातानि चारित्रं, चारित्राचारित्रं - देशविरतिः स्थूलप्राणातिपातादिनिवृत्तिलक्षणं श्रावकाणां, तथा दानलाभ- भोगोपभोग - वीर्य-श्रोत्र - चक्षुर्घाण - रसन- स्पर्शनाख्या दश लब्धय जीवद्रव्याव्यभिचारिण्यो लक्षणं भवन्ति ।
तथा उपयोगः - साकारोऽनाकारश्चाष्ट- चतुर्भेदः, योगो मनो- वाक्- कायाख्यस्त्रिधा अध्यवसायाश्वानेकविधाः सूक्ष्माचेत:परिणामविशेषाः, विश्वग्- पृथग् लब्धीनामुदयाः - प्रादुर्भावाः क्षीर-मध्वास्रवादयः, ज्ञानावरणाद्यन्तरायावसानकर्माष्टकस्य स्वशक्तिपरिणाम उदयः, लेश्याः कृष्णादिभेदा अशुभाः शुभाश्च कषाययोगपरिणाम विशेष समुत्थाश्च संज्ञास्त्वाहार-भयपरिग्रह - मैथुनाख्याश्चतस्रः, अथवा दशभेदाश्चतस्रस्ता एव क्रोधसंज्ञा-मान- माया - लोमसंज्ञा - ओघसंज्ञा-लोकसंज्ञाचेति दश, उच्छ्रवास - निःश्वासौ प्राणापानौ, कपायाः क्रोधादयोऽनन्तानुबन्ध्यादिभेदात् पोडशविधाः, एतानि द्वीन्द्रियादीनां लक्षणानि यथासम्भवं ज्ञातव्यानि २ ।
परिमाणद्वारे - क्षेत्रतः संवर्तित लोकप्रतरासङ्ख्ये य भागवर्त्तिप्रदेशराशि परिमाणास्त्रसकाय पर्याप्तकाः, एते च वादरतेजस्कायपर्याप्तकेभ्योऽसङ्ख्येयगुणाः, त्रसकायपर्याप्तकेभ्यस्त्रसकायाऽपर्याप्तका असइख्येयगुणाः, तथा कालतः प्रत्युत्पन्नत्रसकायिकाः सागरोपमलक्षपृथक्त्वसमय राशिपरिमाणा जघन्यपदे, उत्कृष्टपदेऽपि सागरोपमलक्षपृथक्त्वसमयराशिपरिमाणा एवेति, उक्तं परिमाणद्वारम् ३ ।
१।१६
॥९२॥