________________
आचा०
प्रदी०
अथ तेषामेव योन्यादिभेदेनोत्तरभेदानाह - तत्र नारकाणामाद्यासु तिसृषु शीतैव यांनिः, चतुर्थ्यामुपरितननरकेषु शीताऽधस्तननरकेषु उष्णा, पञ्चमी- पष्ठी - सप्तमीषु उष्णैव योनिर्नेतरे । गर्भव्युत्क्रान्तिकतिर्यग्मनुष्याणां समस्तदेवानां च शीतोष्णा योनिर्नेतरे । द्वि-त्रि- चतुः - पञ्चेन्द्रियतिर्यग्मनुष्याणां त्रिविधाऽपि योनिः शीता - उष्णा- शीतोष्णा चेति ।
तथा नारक देवानां अचित्ता नेतरे । द्वीन्द्रियादिसम्मूर्च्छनजपञ्चेन्द्रियतिर्यग् - मनुष्याणां त्रिविधाऽपि योनिः सचित्ताऽचित्ता मिश्रा च । गर्भव्युत्क्रान्तिकतिर्यग् - मनुष्याणां मिश्रा योनिर्नेतरे ।
तथा नारक - देवानां संवृता योनिर्नेतरे । द्वि-त्रि- चतुरिन्द्रिय-सम्मूर्च्छन तिर्यग मनुष्याणां विवृता योनिर्नेतरे । गर्भव्युत्क्रान्तिक तिर्यग् - मनुष्याणां संवृतविवृतायोनिर्नेतरे ।
तथा नारका नपुंसकयोनय एव । तिर्यश्वस्त्रिविधाः स्त्री-पुंनपुंसकयोनयोऽपि । मनुष्याः स्त्री-पुं- नपुंसकयोनयः, देवाः स्त्री-पुंयोनय एव ।
तथा मनुष्याणां यो नेत्रैविध्यं यथा - कूर्मोश्नता-तस्यां चार्हच्चक्रवर्त्त्यादिसत्पुरुषाणामुत्पत्तिः, तथा शङ्खावर्ता-सा च स्त्रीरत्नस्यैव तस्यां च प्राणिनां सम्भवोऽस्ति न निष्पत्तिः, तथा वंशीपत्रा-सा च प्राकृतजनस्य ।
अथवा त्रिविधानसाः - अण्डजाः पोतजाः जरायुजाः, तत्राण्डजाः - पक्ष्यादयः, पोतजाः- वल्गुलीगजकलभकादयः, जरायुजा - गोमहिषी मनुष्यादयः ।
१|१|६
॥८९॥