SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी० ॥ शस्त्रपरिज्ञाध्ययने षष्ठोद्देशकः ॥ उक्तः पञ्चमोद्देशकः, साम्प्रतं षष्ठः समारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरोद्देश के वनस्पतिकायः प्रतिपादितः, तदनन्तरं सकायस्यागमे परिपठितत्वात् सकायस्वरूपाधिगमायाऽयमुदेशकः समारभ्यते, तस्य चोपक्रमादीनि चत्वार्ययोगद्वाराणि वाच्यानि यावन्नाम निष्पन्ने निक्षेपे त्रसकायोद्देशकः, तत्र सकायस्य पूर्वप्रसिद्धद्वारातिदेशायाह - तसकाए दाराई ताई जाई हवंति पुढवीए । नाणसी उ विहाणे परिमाणुवभोगसस्थे य ॥ १ ॥ [ आ० नि० गाथा १५२ ] त्रस्यन्तीति सा द्वीन्द्रियादयस्तेषां कायस्त्रसकायस्तस्मिन् तान्येव द्वाराणि भवन्ति यानि पृथिव्यां प्रतिपादितानि, नानात्वं तु विधानपरिमाणुपभोगशस्त्रद्वारेषु च शब्दाल्लक्षणे च ज्ञातव्यम् । तत्र विधानद्वारे - द्विविधास्त्रसकायजीवाः, लब्धित्रसा गतित्रसाथ, तत्र लब्धिस्तच्छक्तिमात्रं तया त्रसालब्धित्रसाः, लब्धित्रसौ तेजो - वायुकायौ, ताभ्यां नेहाधिकारः, यतस्तेजसोऽभिहितत्वात् वायोश्चाभिधास्यमानत्वात् इह गतित्रसा एवाधिक्रियते, तत्र नारका - रत्नप्रभादिभेदात्सप्तधा, तिर्यञ्चोऽपि द्वि-त्रि- चतुः - पञ्चेन्द्रियाः, मनुष्याः सम्मूर्च्छनगर्भव्युत्क्रान्तयः, अमराश्च भवनपति - व्यन्तर-ज्योतिषिक वैमानिकाः । एते च नारकादयो पर्याप्ताऽपर्याप्तभेदेन द्विधा । १।१।६ ॥८८॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy