SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ श१५ आचा प्रदी० RS SHISHASHISHASHA-RSS RSS . 'इमं पि आहारग' यथेदं मनुष्यशरीरं स्तनक्षीरव्यञ्जनौदनाद्याहाराभ्यवहारकं तथेदमपि वनस्पतिशरीरं भू-जलाधाहाराभ्यवहारकम् । 'इमं पि अणितियं यथेदं मनुष्यशरीरमनित्यक-न सर्वदा स्थायि तथैतदपि वनस्पतिशरीरकमनित्यं नियतायुष्कत्वात् , वनस्पतेर्दशवर्षसहस्राण्युत्कृष्टमायुः । तथा 'इमं पि असासयं' यथेदं मनुष्यशरीरमशाश्वतं प्रतिक्षणमावीचीमरणेन मरणोत्तथेदमपि वनस्पतिशरीरम् । तथा 'इमं पि चयावचइयं' यथेदं मनुष्यशरीरमिष्टानिष्टाहारादिप्राप्त्या चयापचयिकं वृद्धिहान्यात्मकं तथैतदपि । तथा 'इमं पि विपरिणामधम्मयं' यथेदं मनुष्यशरीरं विविधपरिणाम:-तत्तद्रोगसम्पर्कात् पाण्डुत्वोदरवृद्धि-शोफ-कृशत्वागुलिनाशिकाप्रवेशादिरूपो बालादिरूपो वा, तथा रसायन-स्नेहाधुपयोगाद्विशिष्टकान्ति-बलोपचयादिरूपो विपरिणामस्तद्धर्मकं-तत्स्वभावकं तथैतदपि वनस्पतिशरीरं तथाविधरोगोद्भवात्पत्र-पुष्प-फल-त्वगाधन्यथाभवनात् तथा विशिष्टदोहदप्रदानेन पुष्पफलाधुपचयाद्विपरिणामधर्मकमेव । इत्यादिधर्मकलापसद्भावाभिःसंशयं सचेतनास्तरव इति ॥ ४७ ।। एवं वनस्पतेश्चेतनां प्रदर्य तदारम्भे बन्धं' परिहाररूपविरत्यासेवनेन च मुनित्वं प्रतिपादयन्नुपसञ्जिहीपुराह१बन्धः-पा० । ॥८६॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy