SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ आचा० प्रदी० 54ESSIA4%252 यथा मनुष्यशरीरं बाल-कुमार-युव-वृद्धतापरिणामविशेषवत् चेतनावत्सदाधिष्ठितं प्रस्पष्टचेतनाकमुपलभ्यते, तथेदमपि ला वनस्पतिशरीरं, यतो जातः केतकतरुलिको युवा वृद्धश्च संवृत्त इति, अतस्तुल्यत्वादेतदपि जातिधर्मकम् । तथा 'इमं पि बुड्विधम्मयं' यथेदं मनुष्यशरीरकमनवरतं बाल-कुमाराद्यवस्थाविशेषेवर्धते तथैतदपि वनस्पतिशरीरं अङ्कुर-किशलय-शाखा-प्रशाखादिभिर्विशेषवर्धते । तथा 'इमं पि चित्तमंतयं' यथेदं मनुष्यशरीरं चित्तवदेवं वनस्पतिशरीरमपि चित्तवत् , कथम् ? चेतयति येन तच्चित्तं, यथा मनुष्यशरीरं ज्ञानेनानुगतमेवं वनस्पतिशरीरमपि, यतो धात्री-अपुन्नाटादीनां स्वापविबोधतस्तद्भावः' तथाऽधोनिखातद्रविणराशेः स्वप्ररोहणावेष्टनं प्रावृड्नलधरनिनादशिशिरवायुसंस्पर्शादङ्कुरोदभेदः, तथा मदमदनसङ्गमस्खलद्गतिविघूर्णमानलोललोचनविलासिनीसन्नूपुरसुकुमारचरणताडनादशोकतरोः पल्लवकुसुमोद्गमः, तथा सुरभिमुरागण्डूपसेकाद्वकुलस्याङ्कुरोद्भेदः, सङ्कोचनिका हस्तस्पर्शादेव सङ्कोचमामोति, न चैतदभिहिततरुसम्बन्धिक्रियाजालं ज्ञानमन्तरेण घटते, तस्मात् सिद्ध चित्तवचं वनस्पतेरिति । 'इमं पि छिण्णं मिलाति' यथेदं मनुष्यशरीरं इस्तादि छिन्नं म्लायति--शुष्यति तथा तरुशरीरमपि पल्लव-कुसुमादि छिन्नं शोषमुपगच्छद् दृष्टं, न चाचेतनानामयं धर्मः। १ स्वापविबोधसद्भाव:-वृ०। मा०८ ॥८५॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy