SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ श आचा० प्रदी० पुणो पुणो गुणासाते वंक समायारे (सू. ४४) । ततश्चासावेवमसकृच्छब्दादिगुणलुब्धो न शक्नोत्यात्मानं शब्दादिगृद्धे निवर्तयितुम् , अनिवर्तमानश्च पुनः पुनर्गुणास्वादो भवति, शब्दादिगुणानास्वादयतीत्यर्थः, तथा वक्रोऽसंयतः कुटिलो नरकादिगत्याभिमुख्यप्रवणत्वात् , समाचरणं समाचारोऽनुष्ठानं, वक्रः समाचारो यस्यासौ वक्रसमाचारः, असंयमानुष्ठायीत्यर्थः, अश्यमेव शब्दादिविषयाभिलाषी भूतोपमर्द- | कारीत्यतो वक्रसमाचारः, प्राक् शब्दादिविषयलवसमास्वादनाद गृद्धः पुनरप्यात्मानं वारयितुमसमर्थवादपथ्याम्रफलभोजिराजवद्विनाशं प्राप्नोति । ____ यथा-एकस्य राज्ञः सहकाराजीर्णमपनीय वैद्यैरुक्तं-राजन्नतः परं नाम्रफलानि त्वया भक्षणीयानि, ततो राजा उत्खानितस्वदेशाम्रोऽऽश्वापहृतो वने सहकाराऽधस्तात् छायायामुपविष्टो मन्त्रिणा वार्यमाणोऽपि पतिताऽऽम्रभक्षणे राजा मृत इति ॥४४॥ ___एवं चासौ शब्दादिविषयसमास्वादनात् खंतपुत्रवदिदमाचरति, तद्दृष्टान्तश्च संक्षेपतोऽयम् आहारदायकदत्तनामपितृ मृतौ निदाघे गोचरचर्यायां भ्रमन् तृषाव्याकुल उदाराकार इति कृत्वा प्रोषितवणिग्भार्यया स्वगृहे स्थापितो, वातायनस्थो भोगान् भुङ्क्ते, वैकल्येन अरहन्नक! अरहन्नक ! क्यासीति विलपन्ती भद्रा यतिनी स्वमातरमुपलक्ष्याऽऽगत्य प्रणास्तया बोधितः, पाप्यह संयमाऽसमर्थः करोम्यनशनमित्युक्त्वा मात्राऽनुज्ञातस्तप्तशिलायां पादपोपगमनेन क्षणादेहो विलीनो नवनीतवत् सुरश्चाहन्नकोऽजनि । BSPREASSESPECHAR SHASKAR ॥८ ॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy