SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ माचा० दी० प्रज्ञापक दिगङ्गिकरणादूर्ध्वदिग्व्यवस्थितं रूपगुणं पश्यति प्रासादतल-हर्म्यादिषु, अध इति अधस्तात् गिरिशिखर- प्रासादारूढोऽभ्यवस्थितं रूपणं पश्यति, गृहभित्यादिव्यवस्थितं रूपगुणं तिर्यक् पश्यति, तिर्यक्शन्देन चात्र दिशोऽनुदिशश्च परिगृह्यन्ते, तामाः - प्राचीनमिति पूर्वा दिक्, एवमन्या अपि तिर्यदिशो दृष्टव्याः, एतासु दिक्षु पश्यन् चक्षुर्ज्ञानपरिणतो रूपादिद्रव्याणि चक्षुर्ग्राह्यतया परिणतानि पश्यति - उपलभते, तथा तासु च शृण्वन् शृणोति शब्दानुपयुक्तः श्रोत्रेण नान्यथेति । न चोपलब्धिमात्रात् संसारप्रपातः किन्तु मूर्च्छति इति दर्शयितुमाह – 'उ'ति ऊर्ध्वादिदिक्षु रूपेषु मूर्च्छन् मूर्च्छति, रागपरिणामवान् रूपादिषु रज्यत इत्यर्थः एवं शब्देष्वपि मूच्छति, रूप-शब्दविषयग्रहणाच्च शेषा अपि गन्ध-रसस्पर्शा गृह्यते ॥४२॥ एस लोगे वियाहिते एत्थ अगुत्ते अणाणाए (सू. ४३) एष रूप-रस- गन्ध-स्पर्श - शब्दविषयाख्यो लोको व्याख्यातः, लोक्यते - परिच्छिद्यते इति लोकः, अस्मिथ प्रस्तुते शब्दादिगुणलोकेऽगुप्तो यो मनो- वाक्कायैर्मनसा द्वेष्टि रज्यते, वाचा प्रार्थनं शब्दादीनां करोति, कायेन शब्दादिविषयदेशमभिसर्पति, एवं योऽगुप्तो भवति सोऽनाज्ञायां वर्तते, न भगवद्वचनानुसारीति ॥४३॥ एवंगुणश्च यत्कुर्यात्तदाह १ शब्दोषयुक्तः पा० । १1११५ ॥ ८० ॥
SR No.600360
Book TitleAcharang Sutram Part 01
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1992
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy