________________
उ० अ० ६३
व्याख्या— लेश्याभिः सर्वाभिः 'प्रथमसमये' तत्प्रतिपत्तिकालापेक्षया 'परिणताभिः' प्रस्तावादात्मरूपतामापन्नाभिरुपलक्षितस्य 'तुः' पूरणे, 'न हु' नैव कस्यापि उपपादः परे भवे भवति जीवस्य ॥ तथा लेश्याभिः सर्वाभिः 'चरमे' अन्त्ये | समये परिणताभिस्तु 'न हु' नैव कस्याप्युपपादः परे भवे भवति जीवस्य ॥ कदा तर्हि ? इत्याह- अन्तर्मुहूर्ते गत एव, तथाऽन्तर्मुहूर्ते 'शेषके चैव' अवतिष्ठमान एव लेश्याभिः परिणताभिर्जीवा गच्छन्ति परलोकम् । अनेनान्तर्मुहूर्त्ताऽवशेषे आयुषि परभवलेश्यापरिणाम इत्युक्तं भवतीति सूत्रत्रयार्थः ।। ५८-५९-६० ।। सम्प्रत्यध्ययनार्थमुपसञ्जिहीर्षुरुपदेष्टुमाहतम्हा एयासि लेसाणं, अणुभावं वियाणिया । अप्पसत्था उ वज्जित्ता, पसत्था उ अहिट्टए मुणि ६१ त्ति बेमि ॥
व्याख्या - यस्मादेता अप्रशस्ता दुर्गतिहेतवः प्रशस्ताश्च सुगतिहेतवः तस्मादेतासां लेश्यानाम् 'अनुभावम्' उक्तरूपं विज्ञाय अप्रशस्ता वर्जयित्वा प्रशस्ता अधितिष्ठेत् मुनिरिति शेषः, उभयत्राऽपि 'तुः' पूरणे, इति सूत्रार्थः ॥ ६१ ॥ 'इति' परिसमाप्तौ ब्रवीमीति च प्राग्वत् ॥
इति श्रीनेमिचन्द्रसूरिविरचितायां उत्तराध्ययनसूत्रलघुटीकायां सुखबोधायां चतुस्त्रिंशं लेश्याख्यमध्ययनं समाप्तम् ॥
888
*•*•*•*•*
अप्रशस्ताप्रशस्तानां
लेश्यानां वर्जनसेवनोपदेशः ।