________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया
सुखबोधाख्या लघुवृत्तिः ।
॥ ३५३ ॥
न वा लभिज्जा निउणं सहायं, गुणाहियं वा गुणओ समं वा । इक्को वि पावाइँ विवज्जयंतो, विहरेज्ज कामेसु असजमाणो ॥ ५ ॥
व्याख्या – 'न' निषेघे, वाशब्दः चेदर्थे, ततश्च न चेद् लभेत, शेषं सुगमम् ॥ ५ ॥ इत्थं सप्रसङ्गं ज्ञानादी नां दुःखप्रमोक्षोपायत्वमुक्तम् । इदानीं तेषामपि मोहादिक्षयनिबन्धनत्वात् तत्क्षयस्यैव प्राधान्येन दुः खप्रमोक्षहेतुत्वख्यापनार्थं यथा मोहादीनां सम्भवः यथा दुःखहेतुत्वं यथा च दुःखस्याभावः प्रसङ्गतस्तेषां चाभावः तथाऽभिधातुमाहजहा य अंडप्पभवा बलागा, अंडं बलागप्प भवं जहा य । एमेव मोहाययणं खु तन्हं, मोहं च तण्हाययणं वयंति ॥ ६ ॥ रागो य दोसो वि य कम्मबीयं, कम्मं च मोहप्पभवं वयंति । कम्मं च जाई - मरणस्स मूलं, दुक्खं च जाई- मरणं वयंति ॥ ७ ॥ दुक्खं हयं जस्स न होइ मोहो, मोहो हओ जस्स न होइ तण्हा । तन्हा हया जस्स न होइ लोभो, लोभो हओ जस्स न किंचणाई ॥ ८ ॥ व्याख्या - 'यथा च ' येनैव प्रकारेण अण्डप्रभवा बलाका अण्डं बलाकाप्रभवं यथा च ' एवमेव' अनेनैव प्रकारेण मोह:- अज्ञानं मिथ्यादर्शनं च स आयतनं - उत्पत्तिस्थानं यस्याः सा मोहायतना तां, 'खुः' अवधारणे, तृष्णां वदन्तीति सम्बन्धः, यथोक्तमोहाभावे ह्यवश्यम्भावी तृष्णाक्षयः, मोहं च तृष्णायतनं वदन्ति । तृष्णा हि सति वस्तुनि मूर्च्छा, स चा रागप्रधाना ततस्तया राग उपलक्ष्यते सति च तत्र द्वेषोऽपि भवतीति सोऽपि अन यैवाक्षिप्यते, ततस्तृष्णाग्रहणेन रागद्वेषावुक्तौ, तदुत्कटतायां च सिद्ध एव मोहः, एतेन च परस्परं हेतु हेतुमद्भावाऽभिधानेन यथा रागादीनां
द्वात्रिंशं
प्रमादस्या
नाख्यम
ध्ययनम् ।
प्रमादस्य स्थानानि ।
॥ ३५३ ॥