________________
प्रमादस्य स्थानानि ।
व्याख्या-ज्ञानस्य' आमिनिबोधिकज्ञानादेः सर्वस्य, पाठान्तरेण सत्यस्य वा 'प्रकाशनया' निर्मलीकरणेन, अनेन ज्ञानात्मको मोक्षहेतुरुक्तः, तथा अज्ञानं-मत्यज्ञानादि मोहः-दर्शनमोहनीयम् 'अनयोः समाहारस्वस्य 'विवर्जनया' मिथ्याश्रुतश्रवणकुदृष्टिसङ्गपरिहारादिना, अनेन स एव सम्यग्दर्शनात्मकोऽभिहितः, रागस्य द्वेषस्य च सङ्कयेण, एतेन तस्यैव चारित्रात्मकस्याऽभिधानम्, रागद्वेषयोरेव तदुपघातकत्वाऽभिधानात् , ततश्चायमर्थः-सम्यग्दर्शनज्ञानचारित्रैरेकान्तसौख्यं समुपैति मोक्षम्, अयं च दुःखप्रमोक्षाविनाभावी इत्यनेन स एवोपलक्षित इति सूत्रार्थः ॥ २॥ नन्वस्तु ज्ञानादिभिर्युःखप्रमोक्षः, अमीषां तु कः प्राप्तिहेतुः ? उच्यते
तस्सेस मग्गो गुरु-विद्धसेवा, विवजणा बालजणस्स दूरा।
सज्झायएगंतनिसेवणा य, सुत्तऽत्थसंचिंतणया घिई य ॥३॥ व्याख्या-तस्येति अनन्तरमुक्तस्य मोक्षोपायस्यैषः 'मार्गः' पन्था उपाय इत्यर्थः, यदुत गुरवः-यथावच्छास्त्राऽभिधायका वृद्धाश्च-श्रुतपर्यायादिवृद्धास्तेषां सेवा गुरुवृद्धसेवा, विवर्जना 'बालजनस्य' पार्श्वस्थादेः 'दूरात्' दूरेण, तथा स्वाध्यायस्यैकान्तनिषेवणा स्वाध्यायैकान्तनिषेवणा, 'च: समुच्चये, सूत्रार्थसश्चिन्तना धृतिश्च, नहि धृति विना ज्ञानादिलाभ इति सूत्रार्थः ॥ ३॥ यद्येवंविधो ज्ञानादिमार्गः तत एतान्यभिलषता प्राक् किं विधेयम् ? इत्याह
आहारमिच्छे मियमेसणिज्ज, सहायमिच्छे निउणत्थबुद्धिं ।
निकेयमिच्छिज्ज विवेगजोगं, समाहिकामे समणे तवस्सी ॥४॥ व्याख्या-आहारमिच्छेद् मितमेषणीयं सहायमिच्छेद् निपुणा अर्थेषु-जीवादिषु बुद्धिर्यस्य स तथा तं, निकेतमिच्छेद् विवेकः-रुयाद्यसंसर्गस्तद्योग्यं तदुचितं,समाधिकामः श्रमणः तपस्वीति सूत्रार्थः॥४॥एवंविधसहायाऽप्राप्तौ यत् कृत्यं तदाह-1
छन्न विवेगजोगं, समाणा अर्थेषु-जीवादिषु बुद्धियस्य
यत् कृत्यं तदाह