________________
अथ द्वात्रिंशत्तमं प्रमादस्थानाख्यमध्ययनम् ।
द्वात्रिंशं
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया मुखबोधाख्या लघुचिः ।
प्रमादस्थानाख्यमध्ययनम्।
प्रमादस्य स्थानानि ।
॥३५२॥
'अनन्तराध्ययने चरणमभिहितम्, तच्च प्रमादस्थानपरिहारत एवाऽऽसेवितुं शक्यं तत्परिहारश्च तत्परिज्ञानपूर्वक इति तदर्थ द्वात्रिंशमप्रमादस्थाननामकमध्ययनमधुनाऽऽरभ्यते' इति सम्बन्धस्याऽस्सेदमादिसूत्रम्
अचंतकालस्स समूलयस्स, सवस्स दुक्खस्स उ जो पमोक्खो।
तं भासओ मे पडिपुण्णचित्ता, सुणेह एगंतहियं हियत्थं ॥१॥ व्याख्या-अन्तमतिक्रान्तोऽत्यन्तः,वस्तुनश्च द्वावन्तौ-आरम्भक्षणो निष्ठाक्षणश्च, तत्रेह आरम्भक्षणोऽन्तः परिगृह्यते, तथा चात्यन्तः-अनादिः कालो यस्य सोऽत्यन्तकालस्तस्य, सह मूलेन-कषायाविरतिरूपेण वर्चत इति समूल कस्तस्य, उक्तं हि-"मूलं संसारस्स उ, हुंति कसाया अविरई य" । सर्वस्य, दुःखयतीति दुःख-संसारस्तस्य यः प्रकर्षेण मोक्षः-अपगमः प्रमोक्षः पूर्वस्य तुशब्दस्यावधारणार्थस्येह सम्बन्धात् प्रमोक्ष एव, तं भाषमाणस्य मे प्रतिपूर्ण-प्रक्रान्तार्थश्रवणव्यतिरिक्तविषयान्तरागमनेनाऽखण्डितं चित्तं येषां ते प्रतिपूर्णचित्ताः शृणुत एकान्तहित, हितः-तत्त्वतो मोक्ष एव तदर्थमिति सूत्रार्थः॥१॥ यथाप्रतिज्ञातमाह
नाणस्स सबस्स पगासणाए, अन्नाणमोहस्स विवजणाए।
रागस्स दोसस्स य संखएणं, एगंतसुक्खं समुवेइ मोक्खं ॥२॥ "मूलं संसारस्य तु भवन्ति कषाया अविरतिश्च"।
॥३५२।।