SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ चतुर्विधान्, तथाहि — “हास -पओस - विमंसा - पुढो - विमायाहिं देवउवसग्गा । आइतियं माणुस्सा, कुसीलपडि सेवहेऊ य ॥ १ ॥ भयरोसाहारकए, अवश्ञ्चलयणाऽवणे य तेरिच्छा । घट्टण-पवडण थंभण-लेसणया आयवेयणिया ॥ २ ॥” यो | भिक्षुः सहते || 'विकथा - कषाय-सञ्ज्ञानां' प्रतीतानां प्रत्येकं चतुष्कमिति शेषः, “झाणाणं च" त्ति ध्यानयोश्च 'द्विकम्' आर्त्तरौद्ररूपं तथा यो भिक्षुर्वर्जयति, चतुर्विधत्वाच्च ध्यानस्याऽत्र प्रस्तावेऽभिधानम् ॥ व्रतेषु इन्द्रियार्थेषु समितिषु 'क्रियासु च' कायिक्यादिषु यो भिक्षुः 'यतते' यथायोगं परिपालनवर्जनविधानेन यत्नं कुरुते ॥ लेश्यासु षट्सु कायेषु 'षट्के' षट्परिमाणे 'आहारकारणे' वेदनादौ यो भिक्षुः 'यतते' यथायोगं निरोधरक्षादिविधानेन यत्नं कुरुते ॥ 'पिण्डावग्रह - प्रतिमासु' आहार ग्रहणविषयाऽभिग्रहरूपासु संसृष्टादिषु सप्तस्थिति योगः । तत्राऽसंसृष्टा हस्तमात्राभ्यां चिन्त्या - " असंसट्टे हत्थे असंस मत्ते अखरडिय त्ति वृत्तं भवई" एवं गृहतः प्रथमा भवति १ । संसृष्टा ताभ्यामेव चिन्त्या - "संसट्ठे हत्थे संसट्टे मत्ते" एवं गृहतो द्वितीया २ । उद्धृता नाम - पाकस्थानाद् यत् स्थाल्यादौ स्वयोगेन भोजनभाजने वोद्धृतं तत एव गृहतस्तृतीया ३ । अल्पलेपा नाम - अल्पशब्दोऽभाववाचकः, निर्लेपं पृथुकादि गृहतचतुर्थी ४ । अवगृहीता नामभोजनकाले भोक्तुकामस्य शरावादिना यदुपहृतं भोजनजातं तत एव गृह्णतः पञ्चमी ५। प्रगृहीता नाम-भोजनवेलायां भोक्तुकामाय दातुमभ्युद्यतेन भोक्त्रा वा यत् करादिना प्रगृहीतं तद्गृहतः षष्ठी ६ । उज्झितधर्म्मा तु यत् परित्यागार्ह भोजनजातमन्ये च द्विपदादयो नैव काङ्क्षन्ति तदर्धत्यक्तं वा गृहत इति सप्तमी ७ । तथा 'भयस्थानेषु' १ "हास्यप्रद्वेषविमर्श पृथग्विमानामिर्देवोपसर्गाः । आदित्रिकं मानुषकाः कुशीलप्रतिसेवनाहेतु ॥ १ ॥" भयरोषाssहारकृताः अपत्यलयनाऽवने च तैरथाः । चट्टनप्रपतनस्तम्भन श्लेषणकादात्मवेदनीयाः ॥ २ ॥ " २ “असंसृष्टो हस्तः असंसृष्टं मात्रकम्, अखरष्टिता इत्युक्तं भवति" । CXCXXX CXCX XaX चरण विधानम् ।
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy