SearchBrowseAboutContactDonate
Page Preview
Page 697
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । त्रिंशं तपोमार्गगत्याख्यमध्ययनम् । वैयावृत्यमुचिताऽऽहारादिसम्पादनरूपम् , उक्तञ्च-"वेयावञ्चं वावडभावो तह धम्मसाहणनिमित्तं । अन्नाइयाण विहिणा, संपायणमेस भावत्थो ॥१॥" तस्मिन् दशविधे, उक्तं हि-*"आयरिय-उवज्झाए, थेरै-तर्वैस्सी-गिलोण-सेहाणं । साहम्मिय-कुल-गेण-संघसंगयं तमिह कायवं ॥ १॥" 'आसेवनम्' एतद्विषयमनुष्ठानं 'यथास्थाम' स्वसामर्थ्याऽनतिक्रमेण वैयावृत्यं तद् आख्यातम् । स्वाध्यायमाह-"वायणे"त्यादि सुगमम् ॥ ध्यानमाह-"अट्टे"त्यादि प्रकटम् । नवरम्| 'ध्यानं ध्यानाख्यं तपः, "तं तु" तदेव बुधा वदन्ति ॥ व्युत्सर्गमाह-शयने आसने, उभयत्र सुपो लुक, 'स्थाने' ऊर्ध्वस्थाने 'वा' विकल्पे, यस्तु भिक्षुः 'न व्याप्रियते' न चलनादिक्रियां कुरुते, यत्तदोर्नित्याभिसम्बन्धात् तस्य मिक्षोः। कायस्य 'व्युत्सर्गः' चेष्टां प्रति परित्यागो यः षष्ठं 'तत्' तपः परिकीर्तितम् । शेषव्युत्सर्गोपलक्षणं चैतद्, अनेकविधत्वा|दस्य । उक्तं च-"दवे भावे य तहा, दुह वुस्सगो चउबिहो दवे । गणदेहोवहिभत्ते, भावे कोहाइचाउ त्ति ॥१॥” इति सूत्रषट्कार्थः ॥ ३१-३२-३३-३४-३५-३६ ।। अध्ययनार्थमुपसंहरंस्तपस एव फलमाहएयं तवं तु दुविहं, सम्मं आयरे मुणी। से खिप्पं सवसंसारा.विप्पमुच्चड पंडिए ॥३७॥ त्ति बेमि॥ व्याख्या-स्पष्टम् ।। ३७ ॥ इति श्रीनेमिचन्द्रसूरिविरचितायां उत्तराध्ययनसूत्रलघुटीकायां सुखबोधायाँ तपोमार्गगत्याख्यं त्रिंशत्तममध्ययनं समाप्तम् ॥ १"वैयावृत्यं व्यापृतभावस्तथा धर्मसाधननिमित्तम् । अनादिकानां विधिना. सम्पादनमेष भावार्थः ॥१॥" २"आचार्योपाध्याये, स्थविरतपस्विग्लानरीक्षाणाम् । साधर्मिककुलगणसक्सतं तदिह कर्त्तव्यम् ॥१॥" ३"द्रव्ये भावे च तथा द्विधा व्युत्सर्गः चतुर्विधो द्रव्ये । गणदेहोपधिभक्के, भावे क्रोधादित्याग इति ॥१॥" अभ्यन्तरतपसः स्वरूपं तत्फलं च। ॥३४२॥ ॥३४२॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy