SearchBrowseAboutContactDonate
Page Preview
Page 695
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे| श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः । POLIRIT त्रिंशं तपो मार्गगत्याख्यमध्ययनम्। बाह्यतपसः खरूपम् । ॥३४१॥ खीरदहिसप्पिमाई, पणीयं पाणभोयणं । परिवजणं रसाणं तु, भणियं रसविवजणं ॥२६॥ __ व्याख्या-क्षीरदधिसर्पिरादि 'प्रणीतम्' अतिबृहकं, पानं च-खर्जूररसादि भोजनं च-गलद्विन्द्वोदनादि पानभोजनं सोपस्कारत्वादेषां परिवर्जनं रसानां 'तुः' पुरणे, भणितं रसविवर्जनमिति सूत्रार्थः ॥ २६ ॥ कायक्लेशमाहठाणा वीरासणाईया, जीवस्स उ सुहावहा । उग्गा जहा धरिजंति, कायकिलेसं तमाहियं ॥२७॥ व्याख्या-स्थानानि वीरासनादीनि, लोचाद्युपलक्षणं चैतत् , जीवस्य, 'तुः' अवधारणे मिन्नक्रमश्च, ततः सुखावहान्येव मुक्तिसुखहेतुत्वात् , 'उपाणि' दुष्करतया 'यथा' येन प्रकारेण 'धार्यन्ते' सेव्यन्ते "कायकिलेसं तमाहियं" ति कायक्लेशः स आख्यातः तथैवेति शेष इति सूत्रार्थः ॥ २७ ॥ संलीनतामाह- . एगंतमणावाए, इत्थीपसुविवजिए। सयणासणसेवणया, विवित्तं सयणासणं ॥२८॥ ___ व्याख्या-"एगंत" ति सुब्व्यत्ययाद् 'एकान्ते' जनेनाऽनाकुले 'अनापाते' रूयाद्यापातरहिते 'स्त्रीपशुविवर्जिते' तत्रैवाऽवस्थितरुयादिरहिते शून्यागारादाविति भावः, “सयणासणसेवणय" ति सूत्रत्वात् शय नासनसेवनं विविक्तशयनासनं नाम बाह्यं तप उच्यते इति शेषः । उपलक्षणं चैतदेषणीयफलकादिग्रहणस्य, अनेन च विविक्तचर्या नाम संलीनतोक्ता । शेषसंलीनतोपलक्षणमेषा, यतश्चतुर्विधा इयमुक्ता । तथाहि-"इंदियकसायजोगे, पडुच्च संलीणया मुणेयवा। तह जा विवित्तचरिया, पन्नत्ता वीयरागेहिं ॥१॥" इति सूत्रार्थः ॥ २८॥ उक्तमेवार्थमुपसंह रनुत्तरग्रन्थसम्बन्धमाहएसो बाहिरगतवो, समासेण वियाहिओ । अभितरतवो इत्तो, वुच्छामि अणुपुष्वसो ॥ २९ ॥ व्याख्या-सुगममेव ॥ २९ ॥ प्रतिज्ञातमाह "इन्द्रियकषाययोगान् , प्रतीत्य संलीनता ज्ञातव्या । तथा या विविक्तचर्या, प्रज्ञप्ता वीतरागैः ॥॥" ||३४१॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy