SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ बाह्यतपसः स्वरूपम् । न्मुञ्चन्नेव' यदि दाता दास्यति ततोऽहं ग्रहीष्ये नाऽन्यथेत्युपस्कारः, एवं "चरमाणो" त्ति प्राग्वत् चरतः 'खलु' निश्चितं "भावोमाणं" ति भावाऽवमत्वं मुणितव्यम् ॥ पर्यवावमौदर्यमाह-द्रव्ये क्षेत्रे काले भावे च आख्याताः 'तु: पूरणे, ये 'भावाः' पर्याया एकसिक्थोनत्वादयः, 'एतैः सर्वैरपि “ओम" ति अवममुपलक्षणत्वाद् अवमौदर्य चरति अवमचरकः पर्यवचरको भवेद्भिक्षुः । इह च पर्यवग्रहणेन पर्यवप्राधान्यविवक्षया पर्यवावमौदर्यमुक्तम् । यत्रापि च द्रव्यतो न्यूनत्वमुदरस्य नास्ति वत्राऽपि क्षेत्रादिन्यूनतामपेक्ष्याऽवमौदर्याणि भण्यन्त इति सूत्रैकादशकार्थः॥ १४-१५१६-१७-१८-१९-२०-२१-२२-२३-२४ ॥ भिक्षाचर्यामाहअट्ठविहगोयरग्गंतु, तहा सत्तेव एसणा। अभिग्गहा य जे अन्ने, भिक्खायरियमाहिया ॥२५॥ । व्याख्या-अट्ठविहगोयरग्गं" ति प्राकृतत्वाद् अष्टविधोऽप्रः-प्रधानोऽकल्पनीयपरिहारेण स चाऽसौ गोचरश्च अष्टविधायगोचरः, 'तुः' पूरणे, तथा सप्तैवैषणा अभिग्रहाश्च ये 'अन्ये' तदतिरिक्ताः, ते किम् ? इत्याह-मिक्खायरियमा| हिय" त्ति सूत्रत्वेन भिक्षाचर्या वृत्तिसङ्क्षेपापरनामिका आख्याता । अत्र चाऽष्टावग्रगोचरभेदाः पेडादयः, सप्तैषणा|श्चेमाः-*"संसहमसंसट्ठा, उद्धड तह अप्पलेवडा चेव । उग्गहिया पंग्गहिया उज्झियधम्मा य सत्तमिया ॥१॥" 'अभिग्रहाश्च' द्रव्यक्षेत्रकालभावविषयाः। तत्र द्रव्याभिग्रहा:-कुन्ताग्रादिसंस्थितमण्डकखण्डादि ग्रहीष्ये इत्यादयः । क्षेत्राभिग्रहाः-देहली जक्योरन्तर्विधाय यदि दास्यति ततो ग्राह्यमित्यादयः । कालाभिग्रहाः-सकलभिक्षाचर| निवर्तनावसरे मया पर्यटितव्यमित्यादयः । भावाभिग्रहास्तु-हसन् क्रन्दन् बद्धो वा यदि प्रतिलाभयिष्यति ततोऽहमाऽऽदास्ये न त्वन्यथेत्येवमादय इति सूत्रभावार्थः ॥ २५ ॥ अभिहिता भिक्षाचर्या । रसपरित्यागमाह * "संसृष्टाऽसंसृष्टे, उद्धृता तथाऽल्पलेपा चैव । उद्गृहीता प्रगृहीता, उज्झितधर्मा च सप्तमी ॥१॥"
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy