________________
सो पायवो व निकंपो । चलणं परप्पओगा, नवर दुमस्सेव तस्स भवे ।। १ ।। " यद्वा परिकर्म-संलेखना सा यत्राऽस्ति तत् सपरिकर्म, तद्विपरीतं त्वपरिकर्म । तत्र चाव्याघाते त्रयमप्येतत्सूत्रार्थोभयनिष्ठितो निष्पादित शिष्यः संलेखनापूर्वकमेव विधत्ते, अन्यथाऽऽर्त्तध्यानसम्भवात् । उक्तञ्च - " देहेम्मि असंलिहिए, सहसा धाऊहिं खिज्जमाणेहिं । जायइ अट्टज्झाणं, सरीरिणो चरिमकालम्मि ||१||" यत्पुनर्व्याघाते संलेखनामविधायैव क्रियते भक्तप्रत्याख्यानादि तद् अपरिकर्म, उक्तञ्च - |" अभिघाओ वा विज्जूगिरिभित्तीकोणपाय वा होज्जा । संबद्धहत्थपायादओ व वाएण होजाहि ॥ १ ॥ एमाइकारणेहिं, वाघाइम मरण होइ नायवं । परिकम्ममकाऊणं पञ्चकखाई तओ भत्तं ||२||" तथा निर्हरणं निर्धारः - गिरिकन्दरादिगमनेन ग्रामादेर्बहिर्गमनं तद्विद्यते यत्र तन्निर्हारि, तदन्यदनिर्धारि यदुत्थातुकामे ब्रजिकादौ विधीयते । एतच्च प्रकारद्वयमपि पाद| पोपगमनविषयम्, तत्प्रस्ताव एवागमेऽस्याभिधानात् । यदुक्तम् — “पौडवगमणं दुविहं नीहारिं चैव तह अनीहारिं । बहिया गामाईणं, गिरिकंदरमाइ नीहारिं ॥ १ ॥ वइयाइसु जं अंतो, उट्ठेउमणाण ठाइ अणिहारिं । तम्हा पायवगमणं, जं उवमा पायवेत्थ || २ ||" ' आहारच्छेदश्च' अशनादित्यागः 'द्वयोरपि' सपरिकर्माऽपरिकर्मणोर्निर्हार्यनिर्धारिणोश्च सम इति शेष:, इति सूत्रपञ्चकार्थः ॥ ९-१०-११-१२-१३ ॥ उक्तमनशनम् । ऊनोदरतामाह— ओमोयरणं पंचहा, समासेण वियाहियं । दओ खित्तकालेणं, भावेणं पज्जवेहि य ॥ १४ ॥ जो जस्स उ आहारो, तत्तो ओमं तु जो करे । जहन्नेणेगसित्थाई, एवं दवेण ऊ भवे ॥ १५ ॥
१ “देहेऽसंलिखिते सहसा, धातुषु क्षीयमाणेषु । जायते आर्त्तध्यानं, शरीरिणश्वरमकाले ॥ १ ॥” २ “अभिघातो वा गिरिविधु| द्धित्तिकोणकपातो वा भवेत् । सम्बद्धहस्तपादादयो वा वातेन भवेयुः ॥ १ ॥ एवमादिकारणैर्व्याघातिमं मरणं भवति ज्ञातव्यम् । परिकर्माऽकृत्वा, प्रत्याख्यति ततो भक्तम् ॥२॥" ३ "पादपोपगमनं द्विविधं, निर्धारि चैव तथा अनिहारि । बहिर्ग्रामादीनां गिरिकन्दरादौ निर्धारि ॥१॥ ब्रजिकादिषु यदन्तः, उत्थातुमनसि तिष्ठति अनिर्धारि । तस्मात् पादपोपगमनं, यदुपमा पादपेनात्र ॥ २ ॥”
FOXCXCXCXCXCXCX
बाह्यतपसः स्वरूपम् ।