SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ मेण क्रियमाणं षण्मासान्तं परिगृह्यते। तथा श्रेणिरेव श्रेण्या गुणिता प्रतरतप उच्यते, इह चाऽव्यामोहार्थं चतुर्थषष्टाष्टमद- बाह्यतपसः शमाख्यपदचतुष्टयात्मिका श्रेणिर्विवक्ष्यते, सा च चतुर्भिर्गुणिता षोडशपदात्मकः प्रतरो भवति । अयं चाऽऽयामतो स्वरूपम् । विस्तरतश्च तुल्य इत्यस्य स्थापनोपाय उच्यते-"एकाद्याद्या व्यवस्थाप्याः, पतयो हि यथा क्रमम् । द्वितीयाद्याः क्रमाञ्चैताः, XI पूरयेदेककादिभिः॥१॥" स्थापना चेयम्-||२|३|| 'घनः' इति घनतपः, 'चः' पूरणे, 'तथेति समुच्चये,X या भवतीति च क्रिया प्रतितपोभेदं योजनीया । अत्र षोडशपदात्मकः प्रतरः पदचतुष्टयात्मिकया श्रेण्या | गुणितो घनो भवति, आगतं चतुःषष्टिः ६४, २ स्थापना पूर्विकैव, नवरं बाहल्यतोऽपि पदचतुष्टयात्मकत्वं विशेषः, एतदुपलक्षितं तपो घनतप उच्यते ।। ३] 'चः'समुच्चये। 'तथा भवति वर्गश्च' इति इहापि प्रक्रमाद्वर्ग इति वर्गतपः, तत्र च घन एव घनेन गुणितो वर्गों भवति, ततश्चतु:षष्टिः चतुःषष्ट्यैव गुणिता जातानि षण्णवत्यधिकानि चत्वारि सहस्राणि, एतदुपलक्षितं तपो वर्गतपः॥ 'ततश्च' वर्गतपसोऽनन्तरं 'वर्गवर्गः' इति वर्गवर्गतपः 'तुः' समुच्चये पञ्चमम् , अत्र वर्ग एव यदा वर्गेण गुण्यते तदा वर्गवर्गों भवति, यथा चत्वारि सहस्राणि षण्णवत्य|धिकानि तावतैव गुणितानि जातैका कोटिः सप्तषष्टिलक्षाः सप्तसप्ततिसहस्राणि द्वे शते षोडशाधिके, अङ्कतोऽपि १६७७७२१६, एतदुपलक्षितं तपो वर्गवर्गतप इत्युच्यते । एवं पदचतुष्टयमाश्रित्य श्रेण्यादितपो दार्शतम् । एतदनुसारेण पञ्चादिपदेष्वपि एतत्परिभावना कार्या । षष्ठकं 'प्रकीर्णतपः' यत् श्रेण्यादिनियतरच नाविरहितं स्वशक्त्यपेक्षं यथाकथञ्चिद् विधीयते, तञ्च नमस्कारसहितादि पूर्वपुरुषाचरितं यवमध्य-वनमध्य-चन्द्रप्रतिमादि । इत्थं भेदानभिधायोपसं-IX हारमाह-"मणइच्छियचित्तत्थो" ति मनस ईप्सितः-इष्टः चित्रः-अनेकप्रकारः अर्थः- स्वर्गापवर्गादिः तेजोलेश्यादिर्वा यस्मात् तद् मनईप्सितचित्रार्थ ज्ञातव्यं भवति 'इत्वरकं' प्रक्रमाद् अनशनाख्यं तपः ॥ सम्प्रति मरणकालमनशनं
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy