________________
भेदरूपं जनयति, केवलिनः “कम्मंस" त्ति सत्कर्माणि केवलिसत्कर्माणि ॥४१॥ प्रतिः-सादृश्ये, ततः प्रतीति-स्थवि- त्रिसप्तिरकल्पिकादिसदृशं रूप-वेषो यस्य स तथा तद्भावस्तत्ता तया-अधिकोपकरणपरिहाररूपया लाघवमस्याऽस्तीति लाघविक-IX पदानां फलस्तद्भावो लाघविकता तां द्रव्यतः स्वल्पोपकरणत्वेन भावतस्तु अप्रतिबद्धतया, लघुभूतश्च जीवोऽप्रमत्तः, तथा 'प्रकटलिङ्गः' | निरूपणम् । स्थविरकल्पादिरूपेण विज्ञायमानत्वात् , 'प्रशस्तलिङ्गः' जीवरक्षणहेतुरजोहरणादिधारकत्वाद्, विशुद्धसम्यक्त्वः “सत्तसमिइसमत्ते" त्ति सत्त्वं च समितयश्च समाप्ताः-परिपूर्णा यस्य स समाप्तसत्त्वसमितिः, तत एव सर्वप्राणभूतजीवसत्त्वेषु विश्वसनीयरूपः, तत्पीडापरिहारित्वात् , अल्पप्रत्युपेक्षो जितेन्द्रियः, विपुलेन-अनेकभेदतया तपसा समितिभिश्च सर्वविषयानुगतत्वेन विपुलाभिरेव समन्वागतः-युक्तो विपुलतपःसमितिसमन्वागतश्चाऽपि भवति, पूर्वत्र समितीनां परिपूर्णत्वामिधानेन सामस्त्यमुक्तम् , इह तु सार्वत्रिकत्वमिति न पौनरुक्त्यम् ॥ ४२ ॥ वैयावृत्यसूत्रं सुगमम् ॥४३॥ सर्वगुणाः-ज्ञानादयस्तैः सम्पन्नः तद्भावः सर्वगुणसम्पन्नता तया ॥ ४४ ॥ 'वीतरागतया' रागद्वेषविगमरूपया स्नेहः-पुत्रादिविषयस्तद्रूपाण्यनुबन्धनानि-अनुकूलबन्धनानि स्नेहानुबन्धनानि, तृष्णा-लोभस्तद्रूपाणि अनुबन्धनानि तृष्णानुबन्धनानि, ततश्च मनोज्ञेषु शब्दादिषु विरज्यते, कषायप्रत्याख्यानेनैव गतत्वेऽपि रागस्यैव सकलानर्थमूलत्वख्यापनार्थ वीतरागतायाः पृथगुपादानम् ॥ ४५ ॥ क्षान्त्या 'परीषहान्' वधादीन जयति ॥ ४६ ॥ मुक्त्या किञ्चनाभावोऽकिश्चनं, कोऽर्थः ? निःपरिग्रहत्वम् ॥ ४७ ॥ "अजवयाए" त्ति आर्जवेन 'कायर्जुकतां' कुब्जादिवेषभूविकाराद्यकरणतः प्राञ्जलताम् , 'भाव
र्जुकतां' यदन्यद्विचिन्तयन् लोकभक्त्यादिनिमित्तम् अन्यद् वाचा भाषते कायेन वा करोति तत्परिहाररूपाम् , 'भाषर्जुकता' | यदुपहासादिहेतोरन्यदेशभाषया भाषणं तत्परित्यागात्मिकाम् , तथा 'अविसंवादनं' पराऽविप्रतारणं जनयति ॥४८॥ "महवयाए" ति मार्दवेन गम्यमानत्वादभ्यस्यमानेन मृदुः-द्रव्यतो भावतश्चाऽवनमनशीलस्तस्य मार्दवं यत् सदा मार्दवो