SearchBrowseAboutContactDonate
Page Preview
Page 678
Loading...
Download File
Download File
Page Text
________________ ति 'व्यवदान' पूर्वबद्धकर्ममलापगमतो विशिष्टां शुद्धिं जनयति ॥२७॥ व्यवदानेन अक्रिय, कोऽर्थः ? व्युपरतक्रियाख्य | त्रिसप्तिशुक्नुध्यानचतुर्थभेदम् 'अक्रियाक' व्युपरतक्रियाख्यशुक्लथ्यानवी भूत्वा ततः पश्चात् 'सिद्ध्यति' निष्ठितार्थो भवति, 'बुध्यते' बीपदानां फलशानदर्शनयोगाभ्यां वस्तुतत्त्वमवगच्छति, 'मुच्यते' संसाराद्, अत एव परिनिर्वातीत्यादि ॥२८॥ सुख-वैषयिकं तस्य |al निरूपणम् । सातः-तद्गतस्पृहानिवारणेनापनयनं सुखसातस्तेन 'अनुत्सुकत्वं' विषयसुखं प्रति निःस्पृहस्वम् , अनुत्सुकश्च 'अमुकम्पक:' दुःखितानुकम्पी, सुखोत्सुको हि म्रियमाणमपि प्राणिनमवलोकयन् स्वसुखरसिक एवासीत्, तथा 'अनुद्भूट:' अनुस्वणः 'विगतशोकः' नैहिकार्थभ्रंशे शोचते ॥ २९ ॥ 'अप्रतिबद्धतया' मनोनिरभिष्वङ्गतया 'निःसङ्गत्वं' बहिःसङ्गाभाष 'एकः' रागादिसहचरविकलतया 'एकाग्रचित्तः' धर्मैकतानमनाः, ततश्च दिवा रात्रौ चाऽसजन , कोऽर्थः १ सर्वदा बहिःसनं त्यजन्नप्रतिबद्धश्चाऽपि 'विहरति' मासकल्पादिनोद्यतविहारेण पर्यटति ॥ ३०॥ विविक्तानि-रूयाद्यसंसक्तानि शयनासनानि उपलक्षणत्वादुपाश्रयश्च यस्याऽसौ विविक्तशयनासनस्तद्भावस्तत्ता तया 'चारित्रगुप्ति' चरणरक्षां विविक्त:-विकृत्यादिहकवस्तुविरहित आहारो यस्य स तथा, एकान्तेन-निश्चयेन रत एकान्तरतः संयम इति गम्यते, 'मोक्षभावप्रतिपन्नः' मोक्ष एव मया साधितव्य इत्यभिप्रायवान् ।। ३१॥ 'विनिवर्त्तनया' विषयेभ्य आत्मनः पराङ्मुखीकरणरूपया 'पापकर्मणां' | ज्ञानावरणादीनां "अकरणयाए" त्ति आर्षत्वात् 'अकरणेन' अपूर्वानुपार्जनेन अभ्युत्तिष्ठति मोक्षायेति शेषः, पूर्णबद्धानां च निर्जरणया 'तदिति पापकर्म 'निवर्तयति' विनाशयति ॥ ३२ ॥ सम्भोगः-एकमण्डलीकभोक्तृत्वं तस्य प्रत्याख्यानगीतार्थावस्थायां जिनकल्पाद्यभ्युद्यतविहारप्रतिपत्त्या परिहारः सम्भोगप्रत्याख्यानं तेन 'आलम्बनानि' ग्लानतादीनि 'क्षपयति' तिरस्कुरुते, सदोद्यतत्वेन वीर्याचारमेवावलम्बते, निरालम्बस्य च आयतः-मोक्षः स एवाऽर्थः-प्रयोजनं विद्यते | येषामित्यायतार्थिकाः 'योगाः' व्यापाराः भवन्ति' प्रबन्धतः प्रवर्तन्ते, नो तर्कयतीत्यादीन्येकार्थिकानि नानादेशजविनेया
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy