________________
श्रीउत्तराध्ययनसूत्रे
श्रीनेमिच
न्द्रीया
सुखबोधा
ख्या लघुवृत्तिः ।
॥ ३३२ ॥
वाञ्छा सैव मोहयतीति मोहनीयं 'कर्म' अनभिप्रहिक मिध्यात्वरूपं व्युच्छिनत्ति ॥ २० ॥ परावर्त्तनया 'व्यञ्जनानि ' अक्षराणि जनयति तानि हि विगलितान्यपि गुणयतः झगित्युत्पतन्तीति उत्पादितानि उच्यन्ते, तथा तथाविधक्षयोपशमतो व्यञ्जनलाब्धि चशब्दात् पदलब्धि पदानुसारितालक्षणाम् ।। २१ ।। 'अनुप्रेक्षया' चिन्तनिकया स्वस्थितिकाः प्रकरोति, स्थितिखण्डकापहारेणेति भावः, एतचैवं सर्वकर्मणामपि स्थितेरशुभत्वात् । यत उक्तम् — “सवासि पि ठिईओ, सुहासुहाणं पि होंति असुभाओ । माणुसतिरिच्छदेवाउयं च मोत्तूण सेसाणं ।। १ ।। " मन्दानुभावाच इत्यत्राऽशुभप्रकृतय एव गृह्यन्ते, शुभभावस्य शुभासु तीव्रानुभावहेतुत्वात् । उक्तं हि - "सुहपयडीण बिसोहीए तिबमसुभाण संकिलेसेणं" ति । आयुः कर्म व स्याद् बध्नाति स्याद् नो बध्नाति, तस्य त्रिभागादिशेषायुष्कतायामेव बन्धसम्भवात् । असातावेदनीयं च कर्म चशब्दाद् अन्याचा शुभप्रकृतीर्नो भूयोभूयः 'उपचिनोति' निबध्नाति । भूयोभूयोग्रहणं त्वन्यतमप्रमादतः प्रमत्तसंयतस्य तद्बन्धस्थापि सम्भवात्, अनादिकम् 'अनवदग्रम्' अनन्तम्, अत एव " दीहमहूं" ति मकारोऽलाक्षणिकः 'दीर्घाद्धं' दीर्घकालम् ॥ २२ ॥ धर्मकथया "आगमे सस्सभद्दत्ताए" चि आगमिष्यतीति आगम:आगामी कालस्तस्मिन् शश्वद्भद्रतया - अनवरतकल्याणतमोपलक्षितं कर्म निबध्नाति, शुभानुबन्धि शुभमुपार्जयतीति भावः ॥ २३ ॥ श्रुतस्य 'आराधना' सम्यगासेबनया 'न च सङ्कुिश्यते' नैष रागादिजनितसक्लेशभाग् भवति, तद्वशतो नवनवसंबेगावाप्तेः ||२४|| एकं च तदनं च प्रस्तावात् शुभमालम्बनमेकामं तस्मिन् मनः सन्निवेशना एकाग्रमनः सन्निवेशना तया ||२५|| 'संयमेन' पचासनविरमणादिना, “अणण्हयन्तं" ति 'अनंहस्कत्वम्' अविद्यमानकर्मत्वम् ॥ २६ ॥ तपसा " बोयाणं" २ " शुभप्रकृ
१ "सर्वासामपि स्थितयः, शुभाशुभानामपि भवन्त्यशुभाः । मनुष्यतिर्थग्देवायूंषि च मुक्त्वा शेषाणाम् ॥ १ ॥” तीनां विशुख्खा तीव्रमशुभानां सङ्कुशेन” ।
एकोनत्रिंशं
सम्यक्त्वप
|राक्रमाख्यमध्ययनम् ।
त्रिप्तिपदानां फलनिरूपणम् ।
॥ ३३२ ॥