SearchBrowseAboutContactDonate
Page Preview
Page 676
Loading...
Download File
Download File
Page Text
________________ | त्रिसप्तिपदानां फलनिरूपणम्। अन्त:-पर्यन्तो भवस्य कर्मणां वा तस्य क्रिया-निवर्त्तनम् अन्तक्रिया मुक्तिरित्यर्थः, ततश्च अन्तक्रियाहेतुत्वादन्तक्रिया ताम् । तद्धेतुत्वं च तद्भवेऽपि स्याद् अत आह-कल्पाः-देवलोका विमानानि-अवेयकाऽनुत्तरविमानरूपाणि तेषूपपत्तिर्यस्याः सा तथा ताम् । किमुक्तं भवति ?-अनन्तरजन्मनि विशिष्टदेवत्वफलां परम्परया तु मुक्तिप्रापिकाम् 'आराधनां' ज्ञानाद्याराधनामिकामाराधयति ॥ १४ ॥ काल:-प्रादोषिकादिस्तस्य प्रत्युपेक्षणा-ग्रहणप्रतिजागरणरूपा कालप्रत्युपेक्षणा तया ॥ १५॥ 'प्रायश्चित्तकरणेन' आलोचनादिविधानरूपेण 'मार्गः' इह ज्ञानप्राप्तिहेतुः सम्यक्त्वं, युगपदुत्पत्तावपि सम्यक्त्वस्य ज्ञानहेतुत्वात्, यदुक्तम्-कारणकजविभागो, दीवपगासाण जुगवजम्मे |वि । जुगवुप्पन्नं पि तहा, हेऊ नाणस्स सम्मत्तं ॥ १॥" तत्फलं च ज्ञानं विशोधयति । ततश्च आचर्यत इत्या चार:-चारित्रं तच्च तत्फलं च-मुक्तिलक्षणमाराधयति ॥ १६॥ 'क्षमणया' दुःकृतानन्तरं क्षमितव्यमिदं ममेत्या|दिरूपया 'प्रहादनभावं' चित्तप्रसत्तिरूपं 'भावविशुद्धिं' रागद्वेषविगमरूपां कृत्वा निर्भयो भवति अशेषभयहेत्वभावात् ॥ १७ ॥ स्वाध्यायेन ज्ञानावरणीयम् उपलक्षणत्वात् शेषकर्म च क्षपयति, उक्तञ्च-"कैम्ममसंखेजभवं खवेइ अणुसमयमेव उवउत्तो । अन्नयरम्मि वि जोए, सज्झायम्मि य विसेसेणं ॥१॥" ॥ १८ ॥'वाचनया' पाठनेन अनुषञ्जने वर्त्तते, कोऽर्थः ? अव्यवच्छेदं करोति, तीर्थमिह गणधरस्तस्य धर्मः-आचारः श्रुतप्रदानलक्षणः तीर्थधर्मस्तम् 'अवलम्बमानः' आश्रयन् महत्-प्रशस्यं मुक्त्यवाप्त्या पर्यवसानम्-अन्तो गम्यमानत्वात् कर्मणो यस्य स महापर्यवसानः॥ १९ ॥ पूर्वकथितसूत्रादेः पुनः प्रच्छनं प्रतिप्रच्छनं तेन काडा-इदमित्थमित्थं च ममाध्येतुमुचितमित्यादिका "कारणकार्यविभागो, दीपप्रकाशयोयुगपजन्मन्यपि। युगपदुत्पन्नमपि तथा, हेतुर्ज्ञानस्य सम्यक्त्वम् ॥१॥" २ "कर्माऽसङ्केयमविकं क्षपयत्यनुसमयमेवोपयुक्तः । अन्यतरस्मिन्नपि योगे स्वाध्याये च विशेषेण ॥१॥"
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy