SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा ख्या लघुवृचिः । ॥३३१॥ उपलक्षणत्वात् स्थितिघात - रसघात - गुणसङ्क्रम-स्थितिबन्धाश्च विशिष्टाः, अथवा करणगुणेन - अपूर्वकरणादिमाहात्म्येन | श्रेणिः करणगुणश्रेणिः प्रक्रमात् क्षपकश्रेणिरेव तां प्रतिपद्यते ॥ ६ ॥ 'गर्हणेन' परसमक्षमात्मनो दोषोद्भावनेन "अपुरकारं " ति अपुरस्कारम् अवज्ञास्पदत्वं जनयत्यात्मन इति गम्यते, अपुरस्कारगतः तद्भीत्यैवाऽप्रशस्तेभ्यो योगेभ्यो निवर्त्तते, अनन्तविषयतया अनन्ते- ज्ञानदर्शने प्रन्तीत्यनन्तघातिनस्तान् 'पर्यवान्' ज्ञानावरणादिकर्मणः परिणतिविशेषान् उपलक्षणं चैतद् मुक्तिप्राप्तेः, तदर्थत्वात् सर्वप्रयासस्य । एवमनुक्ताऽपि सर्वत्र मुक्तिप्राप्तिरेव फलत्वेन द्रष्टव्या ॥७॥ सामायिकचतुर्विं| शतिस्तवसूत्रे प्रकटे ॥८- ९॥ वन्दनकेन सौभाग्यं चाप्रतिहतम्, 'आज्ञाफलम्' आज्ञासारमित्यर्थः 'दक्षिणभावं च' अनुकूल| भावं जनयति लोकस्येति गम्यते ॥ १०॥ प्रतिक्रमणेन अशबलं- शबलस्थानैरकर्बुरीकृतं चारित्रं यस्य स तथा, “अपुहुत्ते" तिन | विद्यते पृथक्त्वं - प्रस्तावात् संयमयोगेभ्यो वियुक्तत्वस्वरूपं यस्याऽसावपृथक्त्वः, तथा 'सुप्रणिहितः' सुष्ठु संयमे प्रणिधिमान्, | शेषं सुगमम् ॥११॥ कायोत्सर्गेण अतीतं च-इह चिरकालभावित्वेन प्रत्युत्पन्नमिव प्रत्युत्पन्नं च - आसन्नकालभावितया | अतीतप्रत्युत्पन्नं 'प्रायश्चित्तम्' इत्युपचारात् प्रायश्चित्तार्हमतीचारम् ॥१२॥ प्रत्याख्यानसूत्रं सुगमम् ॥१३॥ स्तवाः - देवेन्द्रस्त| वादयः स्तुतयः - एकादिसप्तश्लोकान्ताः, यत उक्तम् — “ऐगदुगत्तिसिलोगा, थुईओ अन्नेसि जाव सत्तेव । देविंदत्थयमाई, | तेण परं थुत्तया होंति ॥ १॥” ततश्च स्तुतयः स्तवाच स्तुतिस्तवाः स्तुतिशब्दस्य क्त्यन्तत्वात् पूर्वनिपातः, सूत्रे तु प्राकृतत्वाद् | व्यत्ययः, त एव मङ्गलं - भावमङ्गलरूपं स्तुतिस्तवमङ्गलं तेन ज्ञानदर्शनचारित्रात्मिका बोधिः ज्ञानदर्शनचारित्रबोधिः तल्लाभ जनयति ॥ उक्तं च – “भेत्तीए जिणवराणं, परमाए खीणपेज्जदोसाणं । आरुग्गबोहिलाभं, समाहिमरणं च पावेंति ॥ १ ॥” १ "एकद्वित्रिश्लोकाः, स्तुतयोऽन्येषां यावत् सप्तैव । देवेन्द्रस्तवाद्यास्ततः परं स्तवा भवन्ति ॥ १ ॥” २ " भक्त्या जिनवराणां, परमया क्षीणप्रेमद्वेषाणाम् । आरोग्यबोधिलाभं, समाधिमरणञ्च प्राप्नुवन्ति ॥ १ ॥ XXXX एकोनत्रिंशं सम्यक्त्वप राक्रमाख्य मध्ययनम् । त्रिसप्ति पदानां फलनिरूपणम् ॥ ॥ ३३१ ॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy