SearchBrowseAboutContactDonate
Page Preview
Page 674
Loading...
Download File
Download File
Page Text
________________ मरुदेवीस्वामिनीवत् । यस्तु न तेनैव सिद्ध्यति स किम् ? इत्याह-'शुद्ध्या' प्रक्रमाद् दर्शनस्य विशुद्ध्या तृतीयं पुनर्भवग्रहणं | त्रिसप्तिनातिकामति, उत्कृष्टदर्शनाराधनाऽपेक्षमेतद् । यत उक्तम्-'उकोसदसणेणं भंते ! जीवे कइहिं भवग्गहणेहिं सिज्झेज्जा ? पदानां फलगोथमा ! उकोसेणं तेणेव, सइथं पुण नाइकमइ ।।" उत्तरत्र सर्वेषु सूत्रेषु प्रश्ननिर्वचनेषु च सुगमपदानि न व्यारूबा- निरूपणम् । स्यन्ते ।। 'निवेदेन' सामान्यतः संसारविरागेण 'सर्वविषयेषु' समस्तसांसारिकवस्तुषु, शेषं सुगमम् ॥२॥ धर्मश्रद्धया' धर्माभिलाषेण साता-सातवेदनीय तजनितानि सौख्यानि सातसौख्यानि तेषु वैषयिकसुखेष्वित्यर्थः, 'अगारधर्म व गृहाचारं गार्हस्थ्यमित्यर्थः त्यजति, ततः 'अनगारः' यतिः सन् जीवः, शेषं स्पष्टम् । नवरं संयोगः-प्रस्तावादनिष्टससम्बन्धः ॥ ३॥ 'गुरुसाधर्मिकशुभूषणेन' तदुपासनारूपेण 'विनयप्रतिपत्तिम्' उचितकृत्यकरणाङ्गीकाररूपाम् अनत्याशात नाशीलः, कोऽर्थः १ गुरुपरिवादादिपरिहारकृत् , तथा वर्ण:-श्लाघा तेन सरावलनं-गुणोद्भासनं भक्तिः-अभ्युत्था-11 नादिका बहुमान:-आन्तरा प्रीतिः, एषां द्वन्द्वे भावप्रत्यये च वर्णसवलनभक्तिबहुमानता तया प्रक्रमाद् गुरूणां सिद्धिसुगति विशोधयति, तन्मार्गभूतसम्यग्दर्शनादिविशोधनेन 'सर्वकार्याणि' श्रुतज्ञानादीनि, “विणइत्ति" ति 'विनेता' विनयं ग्राहिता भवति, स्वयं सुस्थितस्योपादेयवचनत्वाद् । अन्यत् प्रकटम् ।।४। आलोचनासूत्रं स्पष्टमेव ॥५।। निन्दनम्-आत्मनैवा|ऽऽत्मदोषपरिभावनं तेन पश्चादनुतापेन "विरज्यमानः' वैराग्यं गच्छम् करणेन-अपूर्वकरणेन गुणश्रेणिः करणगुणभेणिः, सा चोपरितनस्थितेर्मोहनीयादिकर्मदलिकान्युपादायोदयसमयात्प्रभृति द्वितीयादिसमयेष्वसङ्ख्यातगुणपुद्गलप्रक्षेपरूपा । यत | उक्तम्-"उर्वरिमठिईए दलियं, हेहिमठाणेसु कुणइ गुणसेढी । गुणसंकमकरणं पुण, असुहाओ सुहम्मि पक्खियह ॥१॥" "उत्कृष्टदर्शनेन भदन्त ! जीवः कतिभिर्भवग्रहणैः सिध्येत् ? गौतम ! उत्कर्षेण तेनैव, तृतीय पुनर्नातिकाम्यति ॥" २ "उपरितनस्थितेदेलिकमधस्तनस्थानेषु करोति गुणश्रेणिः । गुणसङ्कमकरणं पुनरशुभाः शुभे प्रक्षिपति ॥१॥" । उ०अ०५६
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy