SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघु वृत्तिः । ॥ ३२३ ॥ संखेवओ विसेसो, विसेससुत्ताउ नायवो ॥ ७ ॥ कप्पसमत्तीए तयं, जिणकप्पं वा उवेंति गच्छं वा । पडिवजमाणगा पुण, जिणस्सगासे पवज्जंति ॥ ८ ॥ तित्थयरसमीवासेवगस्स पासे व णो य अन्नस्स । एएसिं जं चरणं, परिहारविसुद्धिगं तं तु ॥ ९ ॥" "सुहुमं तह संपरायं च " त्ति ' तथा ' इत्यानन्तर्ये, छन्दोभङ्गभयाच्चैवमुपन्यस्तः, सूक्ष्मः - किट्टीकरणतः सम्परायः - लोभाख्यः कषायो यस्मिन् तत् सूक्ष्मसम्परायम् । उक्तञ्च – “लोभाणु वेयंतो, जो खलु उवसामगो व खवगो वा । सो सुहुमसंपराओ, अहखाया ऊणओ किंचि ॥ १ ॥" तथा 'अकषायं' क्षपितो पशमितकषायाऽवस्थाभावि 'यथाख्यातम्' अर्हत्कथितस्वरूपानतिक्रमवत् छद्मस्थस्य जिनस्य वा यथैतत् पश्चविधमपि चारित्रशब्दवाच्यं तथाऽन्वर्थत आह— 'एतद्' सामायिकादि चयस्य-राशेः प्रस्तावात् कर्मणां रिक्तं विरेकोऽभाव इत्यर्थः तत्करोतीति चयरिक्तकरं चारित्रमिति नैरुक्तो विधिर्भवति आख्यातमर्हदादिभिरिति गम्यत इति सूत्रद्वयार्थः ॥ ३२-३३ ॥ सम्प्रति तपोरूपं चतुर्थकारणमाह तवो य दुविहो वृत्तो, बाहिरन्भितरो तहा । बाहिरो छबिहो वृत्तो, एवमभितरो तवो ॥ ३४ ॥ व्याख्या – स्पष्टम् ॥ ३४ ॥ परः प्राह - आहैषां मुक्तिमार्गत्वे कस्य कतरो व्यापारः ? उच्यतेनाणेण जाणई भावे, दंसणेण य सद्दहे । चरित्तेण न गेण्हाइ, तवेणं परिमुज्झई ॥ ३५ ॥ 1 सङ्क्षेपतो विशेषो, विशेषसूत्रात् ज्ञातव्यः ॥ ७ ॥ कल्पसमाप्तौ तकं, जिनकल्पं वा उपेयन्ति गच्छं वा । प्रतिपद्यमानकाः पुनर्जिनसकाशे प्रपद्यन्ते ॥ ८ ॥ तीर्थकरसमीपासेवकस्य पार्श्वे वा नैवान्यस्य । एतेषां यच्चरणं, परिहारविशुद्धिकं तत्तु ॥ ९ ॥" १ " लोभाणु वेदयन् यः खलुपशमको वा क्षपको वा । स सूक्ष्मसम्परायो यथाख्यातादूनकः किञ्चित् ॥ १ ॥” अष्टाविंशं मोक्षमार्गी याख्यम ध्ययनम् । मोक्षमार्ग गति स्वरूपम् । ॥ ३२३ ॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy