SearchBrowseAboutContactDonate
Page Preview
Page 658
Loading...
Download File
Download File
Page Text
________________ व्याख्या -- समः - रागद्वेषरहितः स चेह प्रस्तावात् चित्तपरिणामस्तस्मिन् आयः -- गमनं समायः स एव 'सामायिकं' सर्व सावद्यपरिहारः, 'त्थ' इति पूरणे, 'प्रथमम्' आद्यम् । एतच द्विधा — इत्वरं यावत्कथिकं च । तत्र इत्वरं भरतैरावतयोः, प्रथमचरमतीर्थकरतीर्थयोरुपस्थापनायां छेदोपस्थापनीयभावेन तत्र तद्व्यपदेशाभावात् । यावत्कथिकं च तयोरेव, मध्यमतीर्थकरतीर्थेषु महाविदेहेषु चोपस्थापनाया अभावेन तद्व्यपदेशस्य यावज्जीवमपि सम्भवात् । तथा छेदः - सातिचारस्य यतेनिरतिचारस्य वा शिक्षकस्य तीर्थान्तरसम्बन्धिनो वा तीर्थान्तरं प्रतिपद्यमानस्य पूर्वपर्यायव्यवच्छेदरूपः तद्युक्तोपस्थापना - महाव्रतारोपणरूपा यस्मिम् तत् छेदोपस्थापनं भवेद् द्वितीयम् । तथा परिहरणं परिहारः - विशिष्टतपोरूपस्तेन विशुद्धिरस्मिनिति परिहारविशुद्धिकम् । तच्चैतद्गाथाभ्योऽवसेयम् - "परिहारियाण उ तवो, जहन्न मज्झो तद्देव उक्कोसो । सीउन्हवासकाले, भणिओ धीरेहिं पत्तेयं ॥ १ ॥ तत्थ जहन्नो गिम्हे, चउत्थ छट्ठे तु होइ मज्झिमओ । अट्ठममिहमुक्कोसो, एत्तो | सिसिरे पवक्खामि ॥ २ ॥ सिसिरे उ जहन्नाई, छट्ठाई दसमचरिमगो होइ । वासासु अट्ठमाई, बारसपजंतगो नेओ ॥ ३ ॥ पारणगे आयामं, पंचसु पगहो दोसऽभिग्गहो भिक्खे । कप्पट्टिया य पइदिण, करंति एमेव आयामं ॥ ४ ॥ एवं छम्मासतवं, चरिउं परिहारिया अणुचरंति । अणुचरए परिहारगपयट्ठिए जाव छम्मासा ॥ ५ ॥ कप्पट्ठिओ वि एवं, छम्मासतवं करेइ सेसा उ । अणुपरिहारगभावं, चरंति कप्पट्ठियत्तं च ॥ ६ ॥ एवेसो अट्ठारसमासपमाणो उ वन्निओ कप्पो । १ " परिहारिकाणां तु तपः, जघन्यं मध्यमं तथैवोत्कृष्टम् । शीतोष्णवर्षाकालेषु, भणितं धीरैः प्रत्येकम् ॥ १ ॥ तत्र जघन्यं ग्रीष्मे, चतुर्थं षष्ठं तु भवति मध्यमतः । अष्टममिहोत्कृष्टं, इतः शिशिरे प्रवक्ष्यामि ॥ २ ॥ शिशिरे तु जघन्यादि, षष्ठादि दशमचरमकं भवति । वर्षास्वष्टमादि, द्वादशपर्यन्तकं ज्ञेयम् ॥ ३ ॥ पारणके आचामाम्लं, पञ्चानां प्रग्रहो द्वयोरभिग्रहो भिक्षायाम् । कल्पस्थिताश्च प्रतिदिनं कुर्वन्त्येवमेवाचामाम्लम् ॥ ४ ॥ एवं षण्मासतपः, चरित्वा परिहारिका अनुचरन्ति । अनुचरकाः परिहारकपदस्थिताः यावत् षण्मासाः ॥५॥ कम्पस्थितोऽपि एवं षण्मासतपः करोति शेषास्तु | अनुपरिहारकभावं, चरन्ति कल्पस्थितत्वं च ॥ ६ ॥ एवमेषोऽष्टादशमासप्रमाणस्तु वर्णितः कल्पः । मोक्षमार्ग गतिस्वरूपम् ।
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy