________________
मोक्षमार्ग
गतिखरूपम् ।
जाएगत्तं च पहत्तंच, संखा संठाणमेव य । संजोगा य विभागा य, पजवाणं तु लक्खणं ॥१३॥
व्याख्या-एकत्वं' भिन्नेष्वपि परमाण्वादिषु यदेकोऽयं घटादिरिति प्रतीतिहेतुः, 'पृथक्त्वं च' अयमस्मात् पृथगिति प्रत्ययनिबन्धनम् , 'सङ्ख्या' यत एको द्वौ त्रय इत्यादिका प्रतीतिरुपजायते, 'संस्थानं' परिमण्डलोऽयमित्यादिबुद्धिनिबन्धनम्, 'एवेति पूरणे, 'च' सर्वत्र समुच्चये, 'संयोगाः' अयमङ्गुल्याः संयोग इत्यादिव्यपदेश हेतवः, 'विभागाश्च' अयमितो विभक्त इति बुद्धिहेतवः, उभयत्र व्यक्त्यपेक्षं बहुवचनम्, उपलक्षणत्वाद् नवपुराणत्वादीनि च पर्यवाणां 'तुः' पूरणे लक्षणम् । गुणानां तु लक्षणाऽनभिधानं रूपादिरूपाणां तेषामतिप्रतीतत्वादिति सूत्रार्थः ॥१३॥ इत्यं स्वरूपतो विषयतश्च ज्ञानमभिधाय दर्शनमुपदर्शयितुमाहजीवाऽजीवा य बंधो य, पुन्नपावाऽऽसवो तहा । संवरो निज्जरा मोक्खो, संतेए तहिया नव ॥१४॥ तहियाणं तु भावाणं, सब्भावे उवएसणं । भावेण सद्दहंतस्स, सम्मत्तं तं वियाहियं ॥१५॥
व्याख्या-'जीवाः' प्रतीताः, 'अजीवाः' धर्मास्तिकायादयः, 'बन्धश्च' जीवकर्मणोः संश्लेषः, 'पुण्यं' शुभप्रकृतिरूपं शातादि, 'पापम्' अशुभं मिथ्यात्वादि, 'आश्रवः' कर्मोपादानहेतुः हिंसादिः, पुण्यादीनां च कृतद्वन्द्वानां निर्देशः, 'तथेति समुच्चये, 'संवरः' गुप्त्यादिभिराश्रवनिरोधः, 'निर्जरा' विपाकात् तपसो वा कर्मपरिशाटः, 'मोक्षः' कृत्स्नकर्मक्षयः, सन्त्येते तथ्याः नव भावा इति शेषः ॥ यद्यमी नव तथ्यास्ततः किम् ? इत्याह-तथ्यानां तु भावानां 'सद्भावे' सद्भावविषयम् अवितथसत्ताभिधायकमित्यर्थः उपदेशनं-गुर्वादिसम्बन्धिनमुपदेशं 'भावेन' अन्तःकरणेन 'श्रद्दधतः' तथेति प्रतिपद्यमानस्य 'सम्यक्त्वं' सम्यक्त्वमोहनीयकर्माणुक्षयक्षयोपशमोपशमसमुत्थात्मपरिणामरूपं तदिति भावरूपं श्रद्धानं 'व्याख्यातं' विशेषेणाख्यातं तीर्थकदादिभिरिति गम्यते इति सूत्रद्वयार्थः ॥१४-१५॥ इत्थं सम्यक्त्व खरूपमभिधाय तद्भेदानाह