SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा ख्या लघुवृतिः । ॥३१९॥ XCXCXCXCXCXX CXCXCXCXCX X समयात्मकः 'पुद्गलजन्तवः' इति पुद्गलास्तिकायः जीवास्तिकायः, एतानि द्रव्याणीति शेषः । प्रसङ्गतो लोकस्वरूपमप्याह| 'एषः' अनन्तरोक्तो द्रव्यसमूहः, शेषं स्पष्टमिति सूत्रार्थः ॥ ७ ॥ धर्मादीन्येव द्रव्याणि भेदत आह— धम्मो अहम्मो आगासं, दवं इक्किकमाहियं । अणंताणि य दवाणि, कालो पुग्गलजंतवो ॥ ८ ॥ व्याख्या - स्पष्टमेव ॥ ८ ॥ एतान्येव लक्षणत आह | गइलक्खणो उ धम्मो, अहम्मो ठाणलक्खणो । भायणं सङ्घदवाणं, नहं ओगाहलक्खणं ॥ ९ ॥ वत्तणालक्खणो कालो, जीवो उवओगलक्खणो । नाणेणं दंसणेणं च, सुहेण य दुहेण य ॥ १० ॥ नाणं च दंसणं चेव, चरितं च तवो तहा । वीरियं उवओगो य, एयं जीवस्स लक्खणं ॥ ११ ॥ | सद्दधयार उज्जोओ, पहा छायाऽऽतवे इ वा । वन्न - रस-गंध-फासा, पुग्गलाणं तु लक्खणं ॥ १२ ॥ व्याख्या — गतिलक्षणः 'तुः' पूरणे 'धर्मः' धर्मास्तिकायः 'अधर्मः' अधर्मास्तिकायः स्थानं-स्थितिस्तल्लक्षणः, 'भाजनम्' आधारः सर्वद्रव्याणां नभः अवगाहः - अवकाशस्तल्लक्षणम् ॥ तथा वर्त्तन्ते भवन्ति भावास्तेन तेन रूपेण तान् प्रति प्रयोजकत्वं वर्त्तना तल्लक्षणः कालः, जीव उपयोगलक्षणः, अत एव ज्ञानेन दर्शनेन च सुखेन दुःखेन च प्रक्रमाद् लक्ष्यत इति गम्यते ॥ सम्प्रति विनेयानां दृढतरसंस्काराऽऽधानाय उक्तलक्षणमनूद्य लक्षणान्तरमाह – ज्ञानं च दर्शनं चैव चारित्रं च तपः तथा 'वीर्य' सामर्थ्यम् 'उपयोगः' अवहितत्वम्, एतद् जीवस्य लक्षणम् || शब्दोऽन्धकारः उभयत्र सुपो लुक्, 'उद्योतः ' रत्नादिप्रकाशः ' 'प्रभा' चन्द्रादिरुचिः, 'छाया' शैत्यगुणा, 'आतपः' रविविम्बजनितोष्णप्रकाशः, इतिशब्द आदिशब्दार्थः, ततश्च सम्बन्धभेदादीनां परिग्रहः, 'वा' समुच्चये, तथा वर्ण-रस- गन्ध-स्पर्शाः पुद्गलानां 'तु' पुनरर्थे लक्षणम् । एभिरेव तेषां लक्ष्यमाणत्वादिति सूत्रचतुष्टयार्थः ॥ ९-१०-११-१२ ॥ द्रव्यलक्षणमुक्तम् । पर्यायलक्षणमाह अष्टाविंशं मोक्षमार्गी याख्यम ध्ययनम् । मोक्षमार्ग गति स्वरूपम् । ॥३१९॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy