________________
उ० अ० ५४
तत्थ पंचविहं नाणं, सुयमाभिणिबोहियं । ओहिनाणं तइयं, मणनाणं च केवलं ॥ ४ ॥ व्याख्या - स्पष्टमेव । नवरम् -- ' तत्रे' ति तेषु ज्ञानादिषु मध्ये “मणनाणं" ति मनःपर्यायज्ञानं, 'चः' समुच्चये भिन्नक्रमः, ततः केवलं च । आह -- नन्द्यादिषु मतिज्ञानानन्तरं श्रुतज्ञानमुक्तम्, तदिह किमर्थमादित एव श्रुतोपादानम् ? उच्यते, शेषज्ञानानामपि स्वरूपपरिज्ञानस्य प्रायस्तदधीनत्वेन प्राधान्यख्यापनार्थमिति सूत्रार्थः ॥ ४ ॥ साम्प्रतं ज्ञानशब्दस्य सम्बन्धिशब्दत्वाद् येषां तज्ज्ञानं तान्यभिधातुमाह
एयं पंचविहं नाणं, दव्वाण य गुणाण य । पज्जवाणं च सबेसिं, नाणं नाणीहिं देसियं ॥ ५ ॥
व्याख्या - एतत्पञ्चविधं ज्ञानं द्रव्याणां च 'गुणानाश्च' रूपादीनां 'पर्यवाणां च ' द्रव्यगुणावस्थाविशेषरूपाणां सर्वेषां केवलापेक्षया च सर्वशब्दोपादानम्, शेषज्ञानानां प्रतिनियतपर्यायग्राहितत्वात् । 'ज्ञानम्' अवबोधकं 'ज्ञानिभिः' अर्थात् केव - लिभिः 'दर्शितं' कथितमिति सूत्रार्थः ॥ ५॥ अनेन द्रव्यादिविषयत्वं ज्ञानस्योक्तम्, तत्र च द्रव्यादीनि किंलक्षणानि ? इत्याहगुणाणमासओ दवं, एगदव्वस्सिया गुणा । लक्खणं पज्जवाणं तु, उभओ अस्सिया भवे ॥ ६ ॥
व्याख्या — गुणानामाश्रयो द्रव्यम्, अनेन रूपादय एव वस्तु न तु तद्व्यतिरिक्तमन्यदिति सुगतमतमपास्तम् । तथा एकस्मिन् द्रव्ये - आधारभूते आश्रिताः स्थिता एकद्रव्याश्रिता गुणाः, एतेन च ये द्रव्यमेवेच्छन्ति न तद्व्यतिरिक्ता | रूपादयः तन्मतं निराकृतम् । लक्षणं पर्यवाणां 'तुः' विशेषणे 'उभयोः' द्वयोः - प्राकृतत्वाद् द्रव्यगुणयोराश्रिताः “भवे” ति भवेयुरिति सूत्रार्थः || ६ || 'गुणानामाश्रयो द्रव्यमित्युक्तम् । तत्र कतिभेदं द्रव्यम् ? इत्याशङ्कयाऽऽह — धम्मो अहम्मो आगासं, कालो पुग्गलजंतवो । एस लोगो ति पन्नत्तो, जिणेहिं वरदंसिहिं ॥ ७ ॥
व्याख्या – 'धर्मः' इति धर्मास्तिकाय: 'अधर्मः' इत्यधर्मास्तिकाय: 'आकाशम्' इत्याकाशास्तिकायः 'कालः' अद्धा
मोक्षमार्गगति
स्वरूपम् ।