________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधाख्या लघुवृत्तिः ।
गति
॥३१८॥
अथ अष्टाविंशं मोक्षमार्गीयाख्यमध्ययनम् ।
अष्टाविंशं
मोक्षमार्गी__ व्याख्यातं सप्तविंशमध्ययनम् । अधुनामोक्षमार्गगत्याख्यमष्टाविंशमारभ्यते, अस्य चायमभिसम्बन्धः-'अनन्तराध्यय- याख्यमनेऽशठतोक्ता, तब्यवस्थितस्य मोक्षमार्गगतिप्राप्तिरिति तदभिधायकमिदमारभ्यते' इत्यनेन सम्बन्धेनाऽऽयातस्यास्यादिसूत्रम्- ध्ययनम् । | मोक्खमग्गगई तचं, सुणेह जिणभासियं । चउकारणसंजुत्तं, नाणदंसणलक्खणं ॥१॥
मोक्षमार्गव्याख्या-मोक्षः-अष्टविधकर्मोच्छेदस्तस्य मार्गः-ज्ञानादिरूपो यो मोक्षमार्गस्तेन गतिः-सिद्धिगमनरूपा मोक्षमार्गगतिस्तां कथ्यमानामिति गम्यते, "तचं" ति 'तथ्याम्' अवितथां शृणुत जिनभाषिताम् , चत्वारि कारणानि-वक्ष्यमा
स्वरूपम्। णानि तैः संयुक्ता चतुःकारणसंयुक्ता ताम् । नन्वमूनि चत्वारि कारणानि कर्मक्षयलक्षणस्य मोक्षस्यैव, गतेस्तु तदनन्तरभावि|त्वात् स एवेति कथं चतुःकारणवतीत्वमस्याः ? उच्यते-व्यवहारतः कारणकारणस्यापि कारणत्वाभिधानात् । अतx एवानन्तरकारणस्यैव कारणत्वम् इत्याशङ्कापोहार्थमस्य विशेषणस्योपन्यासः, अन्यथा हि मोक्षमार्गेण गतिरिति विग्रहे गति प्रति मार्गस्य कारणत्वं प्रतीयते एव, तद्रूपाणि चाऽमूनि चत्वारि कारणानि । तथा ज्ञानदर्शने लक्षणं-खरूपं | यस्याः सा तथा तामिति सूत्रार्थः ॥ १॥ यदुक्तं 'मोक्षमार्गगतिं शृणुत' इति तत्र मोक्षमार्गगतिं तावदाहनाणं च दंसणं चेव, चरित्तं च तवो तहा । एस मग्गो त्ति पन्नत्तो, जिणेहिं वरदंसिहिं॥२॥ | व्याख्या-सुगममेव ।। २ ॥ सम्प्रत्येतस्यैवाऽनुवादद्वारेण फलमुपदर्शयितुमाह
॥३१८॥ नाणं च दंसणं चेव, चरित्तं च तवो तहा। एयं मग्गमणुप्पत्ता, जीवा गच्छंति सोग्गई॥३॥ व्याख्या-प्रतीतमेव । नवरम्-'एयं” ति 'एनम्' अनन्तरमुक्तम् ॥ ३ ॥ ज्ञानादीन्येव यथाक्रममभिधातुमाह
40