________________
कुशिष्यत्यागः।
ग्रक्रमात् प्रेरितैः, केवलमात्मा मे अवसीदति, एतत्प्रेरणाव्यग्रतया स्वकृत्यहानेः तद्वरमेतत्त्यागत उद्यतविहारेण विहृतमिति भावः ॥ अथैतत्प्रेरणान्तराले स्वकृत्यमपि किं न क्रियते ? इत्याह-यादृशा मम शिष्याः 'तुः' पूरणे, तादृशा गलिगर्दभा यदि परमिति गम्यते, गर्दभग्रहणम् अतिकुत्साख्यापकम् , ते हि स्वरूपतोऽपि अतिप्रेरणयैव प्रवर्त्तन्ते, ततस्तत्प्रेरणयैव कालोऽतिक्रामति न तु तदन्तरालसम्भव इति भावः। यतश्चैवम् अतो गलिगर्दभानिव 'गलिगर्दभान्' दुःशिष्यान् त्यक्त्वा दृढं परिगृहाति गर्गनामा 'तपः' अनशनादीति सूत्रद्वयार्थः॥ १५-१६॥ एतदेवाहमिउमद्दवसंपन्ने, गंभीरे सुसमाहिए। विहरई महिं महप्पा, सीलभूएण अप्पण॥१७॥त्ति बेमि ॥
व्याख्या-मृदुः' बहिर्वृत्त्या विनयवान् 'मार्दवसम्पन्नः' अन्तःकरणतोऽपि तादृगेव, 'गम्भीरः' अलब्धमध्यः 'सुसमाहितः' सुष्टु समाधिमान् विहरति महीं महात्मा 'शीलभूतेन' चारित्रप्राप्तेन आत्मना उपलक्षितः। यतश्चैवं खलुकताऽऽत्मनो गुरूणां चेहैव दोषहेतुः अतस्तत्त्यागतोऽशठतैव सेवितव्येत्यध्ययनतात्पर्यार्थः ।। १७ । 'इतिः' परिसमाप्तौ ब्रवीमीति पूर्ववत् ॥
इति श्रीनेमिचन्द्रसूरिविरचितायां उत्तराध्ययनसूत्रलघुटीकायां सुखयोधायां खलुङ्कीयाख्यं सप्तविंशमध्ययनं समाप्तम् ॥