________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥३१७॥
तद्विच्छेदमिति भावः, आचार्याणां सतामस्माकं 'तदि' ति अनुशिष्ट्यभिधायकं वचनं प्रतिकूलयति अभीक्ष्णम् ॥ यथा प्रतिकूलयति तथाऽऽह — न सा मां विजानाति, किमुक्तं भवति ? — कदाचिदस्माभिरमुकस्याः श्राविकायाः गृहात् पथ्यादि ग्लानाद्यर्थमानीयतामित्युक्तोऽपि वक्रोत्तरमाह — 'न सा मां जानाति, 'न वे'ति नैव मह्यं दास्यति, यदि वा निर्गता गृहात् सा भविष्यतीति मन्ये' इति वक्ति, अथवा 'साधुरन्यो 'अत्र' प्रयोजने व्रजतु किमहमेवैकः साधुरस्मि ?' इत्यभिधत्ते । अन्यच्च-प्रेषिताः क्वचित् प्रयोजने "पलिउंचंति” त्ति तत्प्रयोजनाऽनिष्पादने पृष्टाः सन्तः 'अपह्नुवते' क्व वयमुक्ताः ?, गता वा तत्र वयं न त्वसौ दृष्टेति 'ते' कुशिष्याः 'परियन्ति' पर्यटन्ति 'समन्ततः' सर्वासु दिक्षु न गुरुसन्निधावासते, मा कदाचिदेतेषां किञ्चित् कृत्यं भविष्यतीति । कथञ्चित् कर्त्तुं प्रवृत्तौ च राजवेष्टिमिव मन्यमाना कुर्वन्ति भ्रुकुटिं मुखे, तदन्य| वपुर्विकारोपलक्षणमेतत् || अपरख – 'वाचिताः' सूत्रं पाठिताः उपलक्षणत्वात् तदर्थं प्राहिताः 'सङ्गृहीताः' परिग्रहे कृताः चशब्दाद् दीक्षिताः स्वयमिति गम्यते 'एवे 'ति पूरणे, भक्तपानेन पोषिताः, तथाऽपि जातपक्षा यथा हंसाः तथैतेऽपि प्रक्रामन्ति "दिसोदिसिं" ति दिशि दिशि यदृच्छाविहारिणो भवन्तीत्यर्थः । प्रागेकप्रक्रमेऽपि यदिह बह्वभिधानं तदीदृशां | भूयस्त्वख्यापनार्थमिति सूत्रद्वादशकार्थः ॥ ३-४-५-६-७-८-९-१०-११-१२-१३-१४ ॥ इत्थं कुशिष्यस्वरूपं परिभाव्य तैरेव प्रापितकुमासमाधिर्यदसावचेष्टत तदाह
अह सारही विचिंतेइ, खलुंकेहिं समागओ । किं मज्झ दुट्ठसीसेहिं ?, अप्पा मे अवसीअई ॥ १५ ॥ जारिसा मम सीसा उ, तारिसा गलिगद्दहा । गलिगद्दहे चइत्ताणं, दढं पगिहई तवं ॥ १६ ॥
व्याख्या- 'अथे 'ति पूर्ववर्णितचिन्ताऽनन्तरं सारथिरिव सारथिः धर्मयान इति प्रक्रमः, गर्गाचार्यः विचिन्तयति खलुङ्खैरिव 'खलुङ्खैः' कुशिष्यैः 'समागतः ' संयुक्तः, 'किं ?' न किश्चिद् मम प्रयोजनं सिध्यतीति गम्यते दुष्टशिष्यैः
सप्तविंशं खलुकी
याख्यम
ध्ययनम् ।
कुशिष्य
स्वरूपम् ।
| ॥३१७॥