SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ अथ खलुकीयाख्यं सप्तविंशमध्ययनम् । सुशिष्यस्वरूपम् । व्याख्यातं षार्डशमध्ययनम् । सम्प्रति खलुङ्कीयाख्यं सप्तविंशमध्ययनमारभ्यते, अस्य चायमभिसम्बन्धः-'अनन्तराध्ययने सामाचारी प्रतिपादिता, सा चाऽशठतयैव पालयितुं शक्या, साऽपि तद्विपक्षभूतशठतापरिहारेणैव भवतीत्यतो दृष्टान्ततः शठतास्वरूपं निरूप्यते' इत्यनेन सम्बन्धेनाऽऽयातस्याऽस्याऽऽदिसूत्रम्X थेरे गणहरे गग्गे, मुणी आसि विसारए । आइन्ने गणिभावम्मि, समाहिं पडिसंधए ॥१॥ ___ व्याख्या-धर्मे अस्थिरान स्थिरीकरोतीति स्थविरः गणं-गुणसमूहं धारयति-आत्मन्यवस्थापयतीति गणधरःगर्ग:' गर्गनामा मुणति-प्रतिजानीते सर्वसावद्यविरतिमिति मुनिः 'आसीत्' अभूत् 'विशारदः सर्वशास्त्रेषु कुशल: 'आकीर्णः' आचार्यगुणैर्व्याप्तः 'गणिभावे' आचार्यत्वे स्थित इति गम्यते, 'समाधि' चित्तसमाधानरूपं 'प्रतिसन्धत्ते' कुशिष्यैस्रोटितमपि सङ्घट्टयति आत्मन इति गम्यत इति सूत्रार्थः॥ १॥ स च समाधि सन्दधद् यत् परिभावयति तदाऽऽहall वहणे वहमाणस्स, कंतारं अइवत्तए । जोए वहमाणस्स, संसारो अइवत्तए ॥२॥ व्याख्या-'वहने' शकटादौ "वहमाणस्स" त्ति अन्तर्भावितण्यर्थतया वाहयमानस्य अर्थात् पामरादेः उत्तरत्र खलुङ्कग्रहणाद् इह विनीतगवादिमिति गम्यते, कान्तारम् 'अतिवर्तते' सुखातिवर्तितया स्वयमेवाऽतिक्रामतीति दृष्टान्तः । उपनयमाह-योगे' संयमव्यापारे 'वाहयमानस्य' प्रवर्त्तयतः आचार्यादेः सुशिष्यानिति गम्यते, संसारः 'अतिवर्त्तते' प्राग्वत्
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy