________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधा
ख्या लघुवृत्तिः ।
॥३१५॥
बीयपयम्मि दुगं तु, मायामथविप्पमुक्काणं ॥ १॥" अत्र च तुशब्दादेकस्याऽप्यनुज्ञा, तथा च चूर्णिकारः - "एवं अमायाविणो तिन्नि दो वा अगिण्हंतस्स एक्को भवई” ॥ 'आगते' प्राप्ते 'कायव्युत्सर्गे' उपचारात् कायव्युत्सर्गसमये शेषं प्राग्वत् । यश्चेह कायोत्सर्गस्य सर्वदुःखविमोक्षणविशेषणं पुनः पुनरुच्यते तदस्याऽत्यन्तनिर्जराहेतुत्वख्यापनार्थम् । यदुक्तम् — “कोउस्सग्गे जह सुट्टियस्स भज्जंति अंगमंगाई । इय भिंदंति मुणिवरा, अट्टविहं कम्मसंघायं ॥ १॥" तथेह कायोत्सर्गग्रहणेन चारित्रदर्शनज्ञानशुद्ध्यर्थं कायोत्सर्गत्रयं गृह्यते, तत्र च तृतीये रात्रिकोऽतीचारश्चिन्त्यते, तथा चाह— रात्रौ भवं रात्रिकं, 'चः ' पूरणे, अतीचारं चिन्तयेत् "अणुपुवसो" त्ति 'आनुपूर्व्या' क्रमेण ज्ञाने दर्शने चारित्रे तपसि चशब्दाद् वीर्ये च । शेषकायोत्सर्गेषु चतुर्विंशतिस्तव चिन्तनं प्रतीतमिति नोक्तम् ॥ ततश्च " पारिए" सूत्रत्रयं प्रतीतमेव । तृतीयसूत्रोत्तरार्द्धात्तार्थानुवादतः सामाचारीविशेषमाह - " पारिए" त्यादि प्राग्वत् । नवरम् — यो यथाशक्ति चिन्तितं प्रतिपद्य कुर्यात् सिद्धानां 'संस्तवं' स्तुतित्रयरूपम्, तदनु च यत्र चैत्यानि सन्ति तत्र तद्वन्दनं विधेयम् । आह च - " वंदित्तुं निवेयंति कालं तो चेइयाई जइ अत्थि” त्ति, इति सार्धत्रयोदशसूत्रार्थः ॥ ३८-३९-४०-४१-४२-४३-४४-४५-४६-४७-४८-४९-५०-५१ ॥ अध्ययनार्थमुपसंहरन्नाह
एसा सामायारी, समासेण वियाहिया । जं चरित्ता बहू जीवा, तिन्ना संसारसागरं ॥ ५२॥ ति बेमि ॥ व्याख्या - सुगममेव ॥
इति श्रीनेमिचन्द्रसूरिकृतायां उत्तराध्ययन सूत्रलघुटीकायां सुखबोधायां सामाचार्याख्यं षड्विंशमध्ययनं समाप्तम् ॥
१ "एवं अमायाविनस्त्रीन् द्वौ वा अगृह्णत एको भवति" । २ “कायोत्सर्गे यथा सुस्थितस्य भज्यन्तेऽङ्गोपाङ्गानि । एवं भिन्दन्ति मुनिवराः, अष्टविधं कर्मसङ्घातम् ॥ १ ॥" ३ " वन्दित्वा निवेदयन्ति कालं ततश्चेत्यानि यदि सन्ति” इति ।
षडविंशं सामाचा
र्याख्यम
ध्ययनम् ।
यतिरात्रि
कृत्यम् ।
॥३१५॥