________________
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
पइविशं सामाचाख्यिमध्ययनम् ।
यतिदिनकृत्यम्।
॥३१२॥
व्याख्या-सूत्रद्वयं व्याख्यातप्रायमेव । नवरम् -'पूर्वस्मिंश्चतुर्भागे' प्रथमपौरुषीलक्षणे प्रक्रमाद् दिनस्य प्रत्युपेक्ष्य 'भाण्डकं' वर्षाकल्पादिकं आदित्योदयसमय इति शेषः ॥ द्वितीयसूत्रे पौरुष्याश्चतुर्थभागे अवशिष्यमाण इति गम्यते, अप्रतिक्रम्य कालस्य चतुर्थपौरुष्यामपि स्वाध्यायस्य विधास्यमानत्वात् ॥ प्रतिलेखनाविधिमेवाह-मुखवस्त्रिका प्रतिलेख्य प्रतिलेखयेत् 'गोच्छक पात्रकोपरिवर्त्यपकरणम्, ततश्च "गोच्छगलइयंगलिउ" त्ति प्राकृतत्वाद् अङ्गलिलातगोच्छकः 'वस्त्राणि' पटलकरूपाणि 'प्रतिलेखयेत्' प्रस्तावात् प्रमार्जयेदित्यर्थः ॥ इत्थं तथावस्थितान्येव पटलकानि गोच्छकेन प्रमृज्य पुनर्यत् कुर्यात् तदाऽऽह-'ऊर्द्ध' कायतो वस्त्रतश्च, तत्र कायत उत्कुटुकः, वस्त्रतस्तिर्यप्रसारितवस्त्रः, 'स्थिरं' | दृढग्रहणेन 'अत्वरितम्' अद्रुतं यथा भवत्येवं 'पूर्व प्रथमं "ता" इति तावत् 'वस्त्रं' पटलकरूपं जातावेकवचनम् , पटलकप्रक्रमेऽपि सामान्यवाचकवस्त्रशब्दाभिधानं वर्षाकल्पादिप्रत्युपेक्षणायामप्ययमेव विधिरिति ख्यापनार्थम् । एवशब्दो भिन्नक्रमः, ततः प्रत्युपेक्षेतैव आरतः परतश्चैव निरीक्षेतैव न तु प्रस्फोटयेत् , तत्र च यदि जन्तून् पश्यति ततो | यतनयाऽन्यत्र सङ्कामयति, तदर्शने च "तो" इति 'ततः' प्रत्युपेक्षणानन्तरं द्वितीयमिदं कुर्यात्-यदुत प्रस्फोटयेत् , तृतीयं च पुनरिदं कुर्यात्-यदुत 'प्रमृज्यात्' प्रत्युपेक्ष्य प्रस्फोट्य च हस्तगतान प्राणिनः प्रमृज्यादित्यर्थः ॥ कथं पुनः प्रस्फोटयेत् प्रमृज्येद् वा ? इत्याह-'अनर्तितं' वस्त्रं वपुर्वा यथा नर्तितं न भवति, 'अवलितं' यथाऽऽत्मनो वस्त्रस्य |च वलितं-मोटनं न भवति, 'अननुबन्धि' अनुबन्धेन-नैरन्तर्यलक्षणेन युक्तमनुबन्धि न तथा अननुबन्धि, कोऽर्थः ? अलक्ष्यमाणविभागं यथा न भवति, "अमोसलिं" ति सूत्रत्वादामर्शवत् तिर्यगूर्वमधो वा कुड्यादिपरामर्शवद् यथा न भवति तथा, किम् ? इत्याह-"छप्पुरिम” त्ति षट् पूर्वाः-पूर्व क्रियमाणतया तिर्यकृतवस्त्रप्रस्फोटनात्मकाः क्रियाविशेषा येषां ते षट्पूर्वाः, नव 'खोटकाः' प्रस्फोटनरूपाः कर्त्तव्या इति शेषः, पाणी प्राणिनां-कुन्थ्वादीनां विशोधनं त्रिक
XXXX
॥३१२॥