SearchBrowseAboutContactDonate
Page Preview
Page 638
Loading...
Download File
Download File
Page Text
________________ यतिदिनकृत्यम्। त्रिकोत्तरकालं त्रिकत्रिकसङ्ख्यं पाणिप्राणिविशोधनं कर्त्तव्यम् ॥ प्रतिलेखनादोषपरिहारार्थमाह-'आरभटा' विपरीतकरणमुच्यते, त्वरितं वा अन्यान्यवस्त्रग्रहणेनाऽसौ भवेत् , उक्तं हि-"वितहकरणमारभडा तुरियं वा अन्नमनगहणेण"। | सम्मर्दनं सम्मर्दा रूढित्वात् स्त्रीलिङ्गता, वस्त्रान्तःकोणसश्चलनम् , उपधेर्वा उपरि निषदनम् , उक्तश्च-अंतो व होज |कोणा निसियण तत्थेव सम्मदा" वर्जयितव्येति सर्वत्र सम्बध्यते । 'चः' पूरणे, "मोसलि" त्ति तिर्यगूलमधो वा घट्टना तृतीया। 'प्रस्फोटना' प्रकर्षेण रेणुगुण्डितस्येव वस्त्रस्य स्फोटना चतुर्थी । विक्षेपणं विक्षिप्ता पञ्चमीति गम्यते, रूढित्वाच्च स्त्रीलिङ्गता, सा च प्रत्युपेक्षितवस्त्रस्याऽन्यत्राऽप्रत्युपेक्षिते क्षेपणं प्रत्युपेक्षमाणो वा वस्त्राञ्चलं यदूर्व क्षिपति । वेदिका "छ?" त्ति षष्ठी, अत्र सम्प्रदायः- वेइया पंचविहा पन्नत्ता, तं जहा-उड्डवेइया, अहोवेइया, तिरियवेइया, उ#ओवेश्या, एगेओवेइया । तत्थ उडवेइया-उवरिं जण्णुगाणं हत्थे काऊणं पडिलेहेइ, अहोवेइया-अहोजण्णुगाणं हत्थे काऊण पडिलेहेइ, तिरियवेइया-संडासयाणं मज्झेणं हत्थे नेऊण पडिलेहेइ, उभओवेइया-बाहाणं अंतरे दो वि जाणुगा काऊण पडिलेहेइ, एगओवेइया-एगं जण्णुगं बाहाणं अंतरे काऊण पडिलेहेई"। एवमेते दोषाः प्रतिलेखनायां परिहर्त्तव्याः ॥ तथा प्रशिथिलं नाम दोषः-यदृढम् अनिरायतं वा वस्त्रं गृह्यते । प्रलम्बः-यद्विषमग्रहणेन प्रत्युपेक्ष्यमाणवस्त्रकोणानां लम्बनं लोल:-भूमौ करे वा प्रत्युपेक्ष्यमाणवस्त्रस्य लोलनममीषां द्वन्द्वः। एकामर्शनं एकामा प्राग्वत स्त्रीलिङ्गता, मध्ये गृहीत्वा प्रणदेशं यावदुभयतो वस्त्रस्य यदेककालं सङ्घर्षणमाकर्षणम् । "अणेगरूबधण" त्ति अनेकरूपा "वितथकरणं आरभटा त्वरितं वा अन्याऽन्यग्रहणेन"। २ "अन्तर्वा भवेयुः कोणा निषीदनं तत्रैव सम्म"। ३ "वेदिका पञ्चविधा प्रज्ञप्ता, तद्यथा-अर्यवेदिका अधोवेदिका तिर्यग्वेदिका उभयतोवेदिका एकतोवेदिका, तनोववेदिका-उपरि जानुनोहस्ती कृत्वा प्रतिलेखयति, अधोवेदिका-अधो जाम्बोईस्ती कृत्वा प्रतिलेखयति, तिर्यग्वेदिका-संदंशकयोर्मध्ये हस्तेन गृहीत्वा प्रतिलेखयति, उभयतोवेदिका-बाह्वोरन्तरे द्वे अपि जानुनी कृत्वा प्रतिलेखयति, एकतोवेदिका-एकं जानु बाह्वोरन्तरे कृत्वा प्रतिलेखयति"। XOXOXOXOXOXOXOXOXOXOXOXE उ०अ०५३
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy