SearchBrowseAboutContactDonate
Page Preview
Page 632
Loading...
Download File
Download File
Page Text
________________ दशविधा यतिसामाचारी। गुरुम् ॥ 'छन्दना' निमन्त्रणा 'द्रव्यजासेन' द्रव्यविशेषेण पूर्वगृहीतेनेति गम्यते । यदुक्तम्-"पुबगहिएण छंदणनिमंतणा होइ अगहिएणं" ति । इच्छाकारः 'सारणे' आत्मनः परस्य वा कृत्यं प्रति प्रवर्सने, तत्राऽऽत्मसारणे, यथा-इच्छाकारेण |युष्मच्चिकीर्षितं कार्यमिदं करोमीति, अन्यसारणे च-मम पात्रलेपनादि इच्छाकारेण कुरुत । 'तथाकारः' इदमित्थमेवेत्यभ्युपगमः, स च 'प्रतिश्रुते' प्रतिश्रवणे गुरौ वाचनादिकं यच्छत्येवमेतदित्यभ्युपगमरूपे । 'अभी'त्याभिमुख्येन उत्थानम्उद्यमनमभ्युत्थानं, "गुरुपूय" त्ति सूत्रत्वाद् गुरुपूजायां, सा च गौरवार्हाणामाचार्यग्लानादीनां यथोचिताहारादिसम्पादनम् । इह च सामान्याभिधानेऽप्यभ्युत्थानं निमन्त्रणारूपमेव ग्राह्यम् , अत एव नियुक्तिकृता एतत्स्थाने निमन्त्रणैवाऽभिहिता "छंदणा य निमंतण" त्ति । तथा "अच्छणे" त्ति 'आसने प्रक्रमाद् आचार्यान्तरादिसन्निधानावस्थाने 'उपसम्पद्' इयन्तं कालं भवदन्तिके मयाऽऽसितव्यमित्येवंरूपा । 'एवम् उक्तप्रकारेण "दुपंचसंजुत्त" त्ति 'द्विपञ्चकसंयुक्ता' दशसंख्यायुता सामाचारी 'प्रवेदिता' कथिता। शेषं स्पष्टमिति सूत्रत्रयार्थः॥ ५-६-७ ॥ एतावता दशविधा सामाचारीमभिधाय ओघसामाचारी विवक्षुरिदमाहपुचिल्लम्मि चउब्भागे, आइच्चम्मि समुहिए। भंडयं पडिलेहित्ता, वंदित्ता य तओ गुरुं॥८॥ पुच्छिज्जा पंजलिउडो, किं कायवं मए इहं? । इच्छं निओइउं भंते !, वेयावच्चे व सज्झाए ॥९॥ वेयावच्चे निउत्तेणं, कायवमगिलायओ । सज्झाए वा निउत्तेणं, सबदुक्खविमोक्खणे ॥१०॥ | व्याख्या-पूर्वस्मिंश्चतुर्भागे आदित्ये 'समुत्थिते' समुद्गते इत्यर्थः, इह च किश्चिदूनोऽपि चतुर्भागश्चतुर्भाग उक्तः, ततोऽयमर्थः-बुद्ध्या नभश्चतुर्धा विभिद्यते, तत्र पूर्वदिक्सम्बद्धे किञ्चिदूननभश्चतुर्भागे यदाऽऽदित्यः समुदेति तदा पादोनपौरुष्यामित्यर्थः, भाण्डमेव 'भाण्डकं' पतगृहाधुपकरणं प्रतिलिख्य वन्दित्वा च ततः' प्रतिलेखनानन्तरं 'गुरुम्' आचार्यादि ओघसामाचारी।
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy