SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ श्रीउत्तरा पइविंश ध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । सामाचाख्यिमध्ययनम् । OXOXOXOXOXO यतिदिनकृत्यम् । ॥३१॥ पृच्छेत् कृतप्राञ्जलिः, यथा-किं कर्त्तव्यं मया 'इह' अस्मिन् समये इति गम्यते । एतदेव व्यनक्ति-"इच्छं" ति इच्छामि | " निओइ" ति नियोजयितुं युष्माभिरात्मानमिति शेषः। 'भंते" ति भदन्त ! वैयावृत्त्ये, वाशब्दो भिन्नक्रमः, ततः स्वाध्याये वा ।। एवं च पृष्ट्वा यत् कृत्यं तदाह-वैयावृत्त्ये नियुक्तेन कर्त्तव्यं प्रक्रमाद् वैयावृत्त्यम् “अगिलायउ" त्ति अग्लान्यैव, स्वाध्याये वा नियुक्तेन सर्वदुःखविमोक्षणे स्वाध्यायोऽग्लान्यैव कर्त्तव्य इति प्रक्रम इति सूत्रत्रयार्थः ॥ ८-९-१०॥ इत्थं सकलौघसामाचारीमूलत्वात् प्रतिलेखनायाः कालं सदा विधेयत्वाद् गुरुपारतव्यं चाभिधायौत्सर्गिक दिनकृत्यमाहदिवसस्स चउरो भागे, कुजा भिक्खू वियक्खणो।तओ उत्तरगुणे कुज्जा, दिणभागेसु चउसु वि ११ पढमं पोरिसिं सज्झायं, बीयं झाणं झियायई। तइयाए भिक्खायरियं, पुणो चउत्थीए सज्झाय॥१२॥ व्याख्या-पष्टमेव । नवरम्-'तओ" त्ति 'ततः' चतुर्भागकरणानन्तरं 'उत्तरगुणान्' स्वाध्यायादीन् ॥ प्रथमां पौरुषी 'स्वाध्यायं' वाचनादिकं कुर्यात् , द्वितीयायां ध्यानं ध्यायेत् , ध्यानं चेहार्थपौरुषीत्वादस्या अर्थविषय एव मानसादिव्यापारणमुच्यते, ध्यायेदिति वा, अनेकार्थत्वाद् धातूनां कुर्यादिति सूत्रद्वयार्थः॥ ११-१२ ॥ यदुक्तं प्रथमां पौरुषीमिति तत्परिज्ञानार्थमाह आसाढे मासे दुपया, पोसे मासे चउप्पया। चित्तासोएसु मासेसु, तिपया हवइ पोरिसी ॥ १३॥ |अंगुलं सत्तरत्तेणं, पक्खेण य दुअंगुलं । वड्डए हायए वा वि, मासेणं चउरंगुलं ॥ १४ ॥ आसाढबहलपक्खे, भद्दवए कत्तिए य पोसे य । फग्गुणवइसाहेसु य, नायबा ओमरत्ता उ॥१५॥ व्याख्या-'सप्तरात्रेणे'ति दिनाविनाभावित्वाद् रात्रीणां सप्ताहोरात्रेण वर्द्धते दक्षिणायने, हीयते उत्तरायणे । इह च ॥३१॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy