________________
अथ पञ्चविंशतितमं यज्ञीयाख्यमध्ययनम् ॥
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥३०५॥
पञ्चविंशं
यज्ञीयाख्यमध्ययनम् । विजयघोषचरित्रम् ।
व्याख्यातं चतुर्विंशमध्ययनम् । अधुना यज्ञीयाख्यं पञ्चविंशमध्ययनं समारभ्यते, अस्य चाऽयमभिसम्बन्धः'अनन्तराध्ययने प्रवचनमातरोऽभिहिताः, इह तु ता ब्रह्मगुणस्थितस्यैव तत्त्वतो भवन्तीति विजयघोषचरितवर्णनद्वारेण ब्रह्मगुणा उच्यन्ते' इत्यनेन सम्बन्धेनायातस्याऽस्य प्रस्तावनाय विजयघोषचरितं लेशतस्तावदुच्यते
वाणारसीए नयरीए दो विप्पा भायरो जमला जयघोस-विजयघोसाभिहाणा आसि । अन्नया जयघोसो ण्हाइउं गंगं गओ, तत्थ पेच्छइ-सप्पेण मंडुक्को गसिज्जइ, सप्पो वि मजारेण अक्कतो, तहा वि सप्पो मंडुकं चिंचियंत खायइ, मज्जारो वि सप्पं चडप्फडंत खायइ । अन्नमन्नघायं पासित्ता-'अहो !!! संसारस्स असारया जो जस्स पहवइ सो तमेत्थ गसइ, कयंतो पुण सबस्स पभवइ, अओ सवं पि गसइ, ता धम्मो चेवेत्थ सबवसणेहिंतो रक्खगों' त्ति चिंतंतो पडिबुद्धो गंगमुत्तरिऊण साहुसगासे समणो जाउ त्ति ॥ साम्प्रतं सूत्रं व्याख्यायते, तच्चेदम्माहणकुलसंभूओ, आसि विप्पो महायसो। जाजाई जमजन्नम्मि, जयघोसे त्ति नामओ ॥१॥ इंदियग्गामनिग्गाही, मग्गगामी महामुणी । गामाणुगाम रीयंते, पत्ते वाणारसिं पुरि ॥२॥ वाणारसीइ बहिया, उज्जाणम्मि मणोरमे । फासुए सेजसंथारे, तत्थ वासमुवागए ॥३॥
व्याख्या-स्पष्टमेव । नवरम्-ब्राह्मणकुलसम्भूतोऽपि जननीजात्यन्यथात्वेन ब्राह्मणो न स्याद् अत आह-विप्रः | "जाजाइ” ति अवश्यं यायजीति यायाजी, क ? इत्याह-यम इव प्राण्युपसंहारकारितया यमः स चासौ यज्ञश्च
॥३०५॥