________________
एयाओ पंच समिईओ, चरणस्स य पवत्तणे। गुत्ती नियत्तणे वुत्ता, असुभत्थेसु य सबसो॥२६॥
व्याख्या-एताः' पञ्च समितयः चरणं-चारित्रं सच्चेष्टेत्यर्थः तस्य प्रवर्त्तने, पूर्वचशब्दस्यैवार्थस्य भिन्नक्रमत्वात् प्रवर्त्तन एव, किमुक्तं भवति ?-सच्चेष्टासु प्रवृत्तावेव समितयः । तथा “गुत्ति" त्ति गुप्तयो निवर्त्तनेऽप्युक्ताः, "असुभत्थेसु" त्ति 'अशुभार्थेभ्यः' अशोभनमनोयोगादिभ्यः "सबसो" त्ति सर्वेभ्यः, अपिशब्दात् चरणप्रवर्त्तनेऽपीति सूत्रार्थः ॥ २६ ॥ सम्प्रति अध्ययनार्थमुपसंहरन् एतदाचरणफलमाहएया पवयणमाया, जे सम्मं आयरे मुणी। सोखिप्पं सवसंसारा, विप्पमुचइ पंडिए॥२७॥त्ति बेमि॥ व्याख्या-स्पष्टमेव ॥ २७ ॥
समितिगुप्त्योः परस्परं भेद एतदाचरणफलञ्च।
॥ इति श्रीनेमिचन्द्रसूरिकृतायां उत्तराध्ययनसूत्रलघुटीकायां सुख
बोधायां प्रवचनमात्राख्यं चतुर्विशमध्ययनं समाप्तम् ॥