SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ चतुर्विंश प्रवचनमात्राख्यमध्ययनम् । श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधा- ख्या लघुवृत्तिः । ॥३०४॥ गुप्तिस्वरूपम्। स्वरूपं निरूपयन् काकोपदेष्टुमाह-संरम्भः-सङ्कल्पः स च मानसस्तथाऽहं ध्यास्यामि यथाऽसौ मरिष्यतीत्येवंविधः, समारम्भः-परपीडाकरोच्चाटनादिनिबन्धनं ध्यानम् अनयोः समाहारस्तस्मिन् , 'आरम्भे' परप्राणापहारक्षमाऽशुभध्यानरूपे, 'चः' समुच्चये, 'तथैव' तेनैवाऽऽगमप्रतीतेन प्रकारेण मनः प्रवर्त्तमानं 'तुः' विशेषणे, निवर्त्तयेत् यतमानो यतिः । विशेषश्वायम्-शुभसङ्कल्पेषु मनः प्रवर्त्तयेदिति सूत्रद्वयार्थः ॥ २०-२१ ॥ वाग्गुप्तिमाहसच्चा तहेव मोसा य, सचामोसा तहेव य । चउत्थी असच्चमोसा य, वयगुत्ती चउबिहा ॥२२॥ संरंभसमारंभे, आरंभे य तहेव य । वयं पवत्तमाणं तु, नियत्तिज जयं जई ॥ २३ ॥ व्याख्या-अनन्तरव्याख्यातमेव । नवरम्-वाग्गुप्तिरुच्चारयितव्या । वाचिकश्च संरम्भः-परव्यापादनक्षममब्रादिपरावर्तनासङ्कल्पसूचको ध्वनिरेवोपचारात् सङ्कल्पशब्दवाच्यः सन् समारम्भ:-परपीडाकरमत्रादिपरावर्त्तनम् , 'आरम्भः' परव्यपरोपणक्षममत्रादिजपनमिति सूत्रद्वयार्थः ।। २२-२३ ॥ कायगुप्तिमाह ठाणे निसीयणे चेव, तहेव य तुयदृणे । उल्लंघण पल्लंघण, इंदियाण य झुंजणे ॥ २४॥ संरंभसमारंभे, आरंभे य तहेव य । कायं पवत्तमाणं तु, नियत्तिज जयं जई ॥ २५॥ व्याख्या-'स्थाने' ऊर्द्धस्थाने 'निषीदने चैव' प्रतीते, तथैव च त्वग्वर्त्तने शयने 'उल्लङ्घने' गर्तादेरुत्क्रमणे | 'प्रलङ्घने सामान्येन गमने, उभयत्र सूत्रत्वात् सुपो लुक् । इन्द्रियाणां च "जुजणे" त्ति 'योजने' शब्दादिषु व्यापारणे, सर्वत्र वर्तमान इति शेषः ॥ संरम्भ:-अभिघातो यष्टिमुष्ट्यादिसंस्थानमेव सङ्कल्पसूचकमुपचारात् सङ्कल्पशब्दवाच्यं सत् समारम्भ:-परितापकरो मुष्ट्याद्यभिघातः अनयोः समाहारस्तस्मिन् , 'आरम्भे' प्राणिवधात्मनि कार्य प्रवर्त्तमानं | निवर्तयेत् । शेषं प्राग्वदिति सूत्रद्वयार्थः ॥ २४-२५ ॥ सम्प्रति समितिगुत्योः परस्परं विशेषमाह ॥३०४॥
SR No.600356
Book TitleUttaradhyayanani
Original Sutra AuthorN/A
AuthorNemichandracharya
PublisherPushpachandra Kshemchandra Balapurwala
Publication Year1937
Total Pages798
LanguagePrakrit
ClassificationManuscript & agam_uttaradhyayan
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy