________________
समितिखरूपम् ।
अणावायमसंलोए, परस्सऽणुवघाइए। समे अज्झुसिरे वा वि, अचिरकालकयम्मि य ॥१७॥ विच्छिन्ने दरमोगाढे, णासन्ने बिलवजिए। तसपाणबीयरहिए, उच्चारादीणि वोसिरे ॥१८॥ ___ व्याख्या-उच्चारं प्रस्रवणं खेलं सिंहानं "जल्लियं" ति जल्लं आहार उपधिं देहं 'अन्यद्वा' कारणतो गृहीतं गोमयादि, 'अपि:' पूरणे, 'तथाविधं परिष्ठापनाह प्रक्रमात् स्थण्डिले व्युत्सृजेद् इत्युत्तरेण सम्बन्धः ॥ स्थण्डिलं च | दशविशेषणपदविशिष्टम् , तत्र चाऽऽद्यविशेषणपदयोर्भङ्गरचनामाह-अनापातम् असंलोकम् , अनापातं चैव भवति संलोकम् , आपातम् असंलोकम् , आपातं चैव संलोकम् । इह चाऽऽपातं संलोकं च अर्शआदेराकृतिगणत्वात् मत्वर्थी| येऽचि सिद्धम् ।। दशविशेषणपदपरिज्ञानार्थमुच्चारादीनि यादृशे स्थण्डिले व्युत्सृजेत् तदाह-अनापाते असंलोके, कस्य ? 'परस्य' स्वपक्षादेः, तथा 'अनुपघातिके' संयमात्मप्रवचनोपघातरहिते, समे अशुषिरे च प्रतीते, अचिरकालकृते च, चिरकृते पुनः सम्मूर्च्छन्त्येव पृथिव्यादयः । 'विस्तीर्णे' जघन्यतोऽपि हस्तमात्रे, 'दूरमवगाढे' जघन्यतोऽपि चतुरङ्गलमधोऽचित्तीभूते, नासन्ने ग्रामारामादेः, बिलवर्जिते त्रसप्राणबीजरहिते उच्चारादीनि व्युत्सृजेदिति सूत्रचतुष्टयार्थः ।। १५-१६-१७-१८ ॥ सम्प्रत्युक्तमर्थमुपसंहरन् वक्ष्यमाणार्थसम्बन्धार्थमाहएताओ पंच समिईओ, समासेण वियाहिया । इत्तो य तओ गुत्तीओ, वोच्छामि अणुपुत्वसो॥१९॥ __ व्याख्या-सुगमम् । नवरम्-"अणुपुत्वसो" त्ति आनुपूर्व्या ॥ १९ ॥ तत्राद्यामाहसच्चा तहेव मोसा य, सच्चामोसा तहेव य । चउत्थी असच्चमोसा य, मणगुत्ती चउबिहा ॥२०॥ संरंभसमारंभे, आरंभे य तहेव य । मणं पवत्तमाणं तु, नियत्तिज जयं जई ॥२१॥ व्याख्या-पष्टमेव । नवरम्-सत्यादयो मनोयोगास्तद्विषया मनोगुप्तिरपि उपचारात् सत्यादिरुक्ता ॥ अस्या एव
XOXOXXXXXXXXXXX
गुप्तिस्वरूपम् ।