________________
समितिस्वरूपम् ।
आलंबणेण कालेणं, मग्गेणं जयणाइ य । चउकारणपरिसुद्धं, संजए इरियं रिए॥४॥ तत्थ आलंबणं णाणं, दंसणं चरणं तथा। काले य दिवसे वुत्ते, मग्गे उप्पहवज्जिए॥५॥ दवओ खेत्तओ चेव, कालओ भावओ तहा। जयणा चउबिहा वुत्ता, तं मे कित्तयओ सुण ॥६॥ दवओ चक्खुसा पेहे, जुगमित्तं च खित्तओ। कालओ जाव रीएजा, उवउत्तो य भावओ॥७॥ इंदियत्थे विवजित्ता, सज्झायं चेव पंचधा । तम्मुत्ती तप्पुरकारे, उवउत्ते रियं रिए॥८॥ __ व्याख्या-पष्टम् । नवरम्-'चउकारणपरिसुद्ध" ति सुब्व्यत्ययात् चतुःकारणपरिशुद्ध्या "इरियं" ति 'ईर्यया' गत्या 'रीयेत' गच्छेत् ॥ "दवओ चक्खुसा पेहि" त्ति 'द्रव्यतः' द्रव्यमाश्रित्य यतना चक्षुषा प्रेक्षेत प्रक्रमात् जीवादिद्रव्यम् , युगमात्रं च प्रस्तावात् क्षेत्रं प्रेक्षेत इति योगः, क्षेत्रतो यतना, कालतो यावद्रीयेत तावत्कालमानेति गम्यते, उपयुतश्च भावतः ।। उपयुक्ततामेव स्पष्टयति-इन्द्रियार्थान् विवर्त्य स्वाध्यायं चैव पञ्चधा, ततश्च तस्यामेव-ईर्यायां मूर्तिः अर्थाद् व्याप्रियमाणा यस्याऽसौ तन्मूर्तिः, तथा तामेव पुरस्करोति-तत्रैवोपयुक्ततया प्राधान्येनाङ्गीकुरुते तत्पुरस्कारः, 'उपयुक्तः' संयत ईर्यया रीयेतेति सूत्रपञ्चकार्थः ॥ ४-५-६-७-८ ॥ भाषासमितिमाहकोहे माणे य माया य, लोभे य उवउत्तया । हासे भय मोहरिए, विगहासु तहेव य॥९॥ एयाई अट्ट ठाणाई, परिवजितु संजए। असावजं मियं काले, भासं भासिज पन्नवं ॥१०॥ __व्याख्या-सुगममेव । नवरम्-एतान्यष्ट स्थानानि परिवयेति, कोऽर्थः ? क्रोधादिवशेन मृषादिरूपमसद्वाग्योगं परिहृत्य संयतः 'असावां' निर्दोषां 'मितां' परिमितां 'काले' प्रस्तावे इति सूत्रद्वयार्थः ।। ९-१० ॥ एषणासमितिमाहगवेसणाए गहणे य, परिभोगेसणा य जा। आहारोवहिसिज्जाए, एए तिन्नि विसोहए ॥११॥