________________
अथ प्रवचनमात्राख्यं चतुर्विंशमध्ययनम् ।
चतुर्विंश
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
प्रवचनमात्राख्यमध्ययनम्।
न्द्रीया
सुखबोधाख्या लघुवृत्तिः । ॥३०२॥
प्रवचनमातनामानि।
व्याख्यातं त्रयोविंशमध्ययनम् । सम्प्रति प्रवचनमातृनामकं चतुर्विंशमारभ्यते, अस्य चायमभिसम्बन्धः'अनन्तराध्ययने परेषामपि चित्तविप्लुतिः केशिगौतमवदपनेया इत्युक्तम् , तदपनयनं च सम्यग्वाग्योगत एव, स च प्रवचनमातृस्वरूपपरिज्ञानत इति तत्स्वरूपमुच्यते' अनेन सम्बन्धेनायातस्यास्याऽऽदिसूत्रम्अट्ट प्पवयणमायाओ, समिती गुत्ती तहेव य । पंचेव य समिईओ, तओ गुत्तीउ आहिया ॥१॥ इरियाभासेसणादाणे, उच्चारे समिई इय । मणगुत्ती वयगुत्ती, कायगुत्ती उ अट्ठमा ॥२॥ एयाओ अट्ट समिईओ, समासेण वियाहिया। दवालसंगं जिणक्खायं, मायं जत्थ उ पवयणं ॥३॥
व्याख्या-सुगममेव । नवरम्-"समिइ” त्ति समितयः, "गुत्ति" त्ति गुप्तयः, तथैव 'चः समुच्चये, "आहिय" त्ति आख्याताः।। ता एव नामत आह-"इरिए"त्यादि आदान-ग्रहणं निक्षेपोपलक्षणम्, “उच्चारे समिई इय" त्ति चस्य भिन्न-1 क्रमत्वाद् उच्चारशब्दस्य चोपलक्षणत्वाद् उच्चारादिपरिष्ठापनायां च समितिः, इदं च प्रत्येक योज्यते, 'इतिः' परिसमाप्तौ एतावत्य एव समितयः ।। निगमनमाह-एता अष्ट 'समितयः' समिति-सम्यक् सर्ववित्प्रवचनानुसारितया इतयः-आत्मनश्चेष्टाः समितय इत्यन्वर्थ गुप्तीनामपि समितिशब्दवाच्यत्वमस्तीत्येवमुपन्यासः। यत्तु भेदेनोपादानं तत् समितीनां प्रवीचाररूपत्वेन गुप्तीनां तु प्रवीचाराप्रवीचारात्मकत्वेन कथञ्चिद् भेदख्यापनार्थम् । 'माय' ति तुशब्दस्योत्तरस्येह योगाद् मातमेव, तथाहि-सर्वा अप्यमूश्चारित्ररूपाः, ज्ञानदर्शनाऽविनाभावि च चारित्रम्, न चैतत्रयातिरिक्तमन्यदर्थतो द्वादशामित्येतासु प्रवचनं मातमुच्यते इति सूत्रत्रयार्थः ॥ १-२-३ ॥ तत्रेर्यासमितिस्वरूपमाह
OXXXX
॥३०२॥