________________
XCXCXCXX CXCXCXCXCXCXCXCX
तोसिया परिसा सबा, सम्मग्गं समुवट्टिया । संधुया ते पसीयंतु, भयवं केसीगोयमे ॥ ८९ ॥ त्ति बेमि । व्याख्या - तथा तोषिता पर्षत् सर्वा 'सन्मार्ग' मुक्तिपथम् अनुष्ठातुमिति गम्यते, 'समुपस्थिता' उद्यता, अनेन पर्षदः फलमाह । इत्थं तच्चरितवर्णनद्वारेण तयोः स्तवनमुक्त्वा प्रणिधानमाह — संस्तुतौ तौ प्रसीदतां भगवत्केशिगौतमाविति सूत्रार्थः ॥ ८९ ॥ 'इति' परिसमाप्तौ ब्रवीमीति पूर्ववत् ॥
॥ इति श्रीनेमिचन्द्र सूरिकृतायां उत्तराध्ययन सूत्रलघुटीकायां सुखबोधायां केशिगौतमीयाख्यं त्रयोविंशमध्ययनं समाप्तम् ॥
केशिगौतमवर्णनसमाप्तिः ।