________________
श्रीउचराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः ।
'पश्चिमाः' पश्चिमजिनमुनयः, मध्यमाः पुनः ऋजुप्रज्ञाः 'तेन' हेतुना धर्मो द्विधा कृतः॥ यदि नाम पूर्वादय एवंविधास्तथापि कथमेतद् द्वैविध्यम् ? इत्याह-"पुरिमाणं" ति पूर्वेषां दुर्विशोध्यः ऋजुजडत्वादेव, 'कल्पः' इति सम्बध्यते, 'तुः' पूरणे, चरमाणां दुःखेनाऽनुपाल्यते दुरनुपालः स एव दुरनुपालको वक्रजडत्वात् , 'कल्पः' यतिक्रियाकलापः मध्यमकानां तु ऋजुप्रज्ञत्वात् सुविशोध्यः सुपालकश्च, चस्य गम्यमानत्वादिति । विचित्रप्रज्ञविनेयानुग्रहाय द्वैविध्यं धर्मस्य देशितम् । प्रसङ्गतश्चेहाऽऽद्यजिनाभिधानमिति सूत्रत्रयार्थः ।। २५-२६-२७ ॥ इत्थं गौतमेनोक्ते केशिराहसाहु गोयम! पन्ना ते, छिन्नो मे संसओइमो। अन्नोऽवि संसओमज्झं, तं मे कहसु गो यमा! ॥२८ अचेलओ अ जो धम्मो, जो इमो संतरुत्तरो। देसिओ वद्धमाणेणं, पासेण य महामु णी ॥२९॥ एगकज्जपवन्नाणं, विसेसे किं नु कारणं? | लिंगे दुविहे मेहावी ! कहं विप्पच्चओ न ते? ॥३०॥
व्याख्या-साधु गौतम! प्रज्ञा ते, छिन्नो मे संशयः "इमो” त्ति अयं त्वयेति विनेयापेक्षं चेत्थ मभिधानम् , अन्यथा तु तस्य ज्ञानत्रयसंयुतस्यैवंविधसंशयासम्भवः । लिङ्गे द्विविधे' अचेलकतया विविधवस्त्रधारितया च द्विभेदे । शेष किश्चित् सुगम किश्चिच्च प्रागू व्याख्यातमेवेति सूत्रत्रयार्थः ॥ २८-२९-३० ॥ ततश्चकेर्सि एवं बुवाणं तु, गोयमो इणमबवी। विन्नाणेण समागम्म. धम्मसाहणमिच्छि यं ॥ ३१ ॥ | पच्चयत्थं च लोगस्स, नाणाविहविगप्पणं । जत्तत्थं गहणत्थं च, लोगे लिंगपओयणं ॥ ३२॥
अह भवे पइन्ना उ, मोक्खसम्भूयसाहणा । णाणं च दंसणं चेव, चरित्तं चेव निच्छ ए ॥ ३३ ॥ __ व्याख्या-विशिष्टं ज्ञानं विज्ञानं तच्च केवलमेव तेन 'समागम्य' यद् यस्योचितं तत् तथैव ज्ञात्वा 'धर्मसाधनं' | धर्मोपकरणं-वर्षाकल्पादि "इच्छियं" ति 'इष्टम्' अनुमतं पार्श्व-वर्द्धमानजिनाभ्यामिति प्रक्रमः। चरमाणां हि रक्त
त्रयोविंश
केशिगौतमीयाख्यमध्ययनम् । केशिगौतमयोः प्रश्नोत्तराणि ।
॥२९७॥